अग्नीनां सर्वार्थत्वाधिकरणम् ] तृतीयोऽध्यायः । २१९ अथैकोनविंशमृत्विजां नियतपदार्थकर्तृत्वाधिकरणम् ॥ १६ ॥ एकोनविंशाधिकरणमारचयति- न कार्य नियतं तेषां नियतं वाऽग्रिमो यतः । शक्ताः, केन किमित्यत्र नियतिः स्यात्समाख्यया ॥ २८॥ तेषामध्वर्युप्रभृतीनां कार्य न नियतम् । यतः सर्वे सर्वत्र शक्ताः । प्रकरणं च सर्वसाधारणत्वान्न नियामकम् इति चेत्- मैवम् ; समाख्याया नियामकत्वात् । यस्मिन् कर्मणि 'आध्वर्यवम्' इति समा- ख्या तत्कर्माऽध्वर्योः । एवमितरत्राऽपि ॥ इत्येकोनविंशमृत्विजां नियतपदार्थकर्तृत्वाधिकरणम् ॥ १९ ॥ अथ विंशमग्नीनां सर्वार्थत्वाधिकरणम् ॥ २० ॥ विंशाधिकरणमारचयति- प्रकृत्यर्थोऽथ सवार्थो वह्निराद्योऽस्तु पर्णवत् । पर्णन्यायोऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः ॥ २६ ॥ यथा “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” इत्यसौ पर्णविधिः प्रकृत्यर्थः , एवमाधानस्याऽप्यनारभ्याधीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थ इति चेत्- मैवम् ।
- वैषम्यात् । पर्णवाक्यात्पर्णताया यावत्क्रतुप्रवेशे जुहूर्द्वारम् । सा च जुहुः
प्रकृतावेव विहिता विकृतिषु सर्वत्राऽतिदिश्यते । आहवनीयाद्यग्नेस्तु क्रतुप्रवेशे द्वारं होमः । स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते । तद्यथा प्रयाजनारिष्टा- दिहोमाः । तादृशे विषये “यदाहवनीये जुह्वति' इति वाक्येनाऽग्निः प्रकृतावेव विधी. यते । विकृतौ तु होमेन सहाऽतिदिश्यते । तस्मात्तत्र पर्णन्यायः। यस्तु होमो विकृ- तावुपदिश्यते-तद्यथा सांग्रहण्यामिष्टावामनहोमः, तत्र द्वारभूतस्य होमस्य विकृतावु- पदिश्यमानतया द्वारिणोऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्वारयितुमशक्यः । तस्मात् सर्वार्थो वह्निः ।। , इति विशमग्नीनां सर्वार्थत्वाधिकरणम् ॥ २० ॥