होतुः करणमन्त्रानुष्ठातृत्वाधिकरणम् ] तृतीयोऽध्यायः । २२९ मनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम् । तेन यजमान. स्तामानुपूर्वी मनसि निधायाऽध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति । तस्माद- ध्वर्योरेवाऽनुष्ठानम् ॥ इति दशमं द्वादशद्वन्द्वानामाध्वर्यवत्वाधिकरणम् ॥ १० ॥ " अथैकादशं होतुः करणमन्त्रानुष्ठातृत्वाधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- यो होताऽध्वर्युरेष स्यादित्यावयवमाचरन् । हौत्रं कुर्यान्न वा त्यागहेत्वभावात्करोति तत् ॥ १६ ॥ होतैको युगपत्कर्मद्वयं कर्तुं न हि प्रभुः । त्यजेच्चोदकतः प्राप्त हौत्रं वाचनिकार्थकृत् ॥ १७ ॥ अग्नीषोमीयपशौ (१)"परिवीरसि" इत्यनेन करणमन्त्रेणाऽध्वर्युर्यूंपस्य रश- नया(२)परिव्याणं करोति । तदानीं क्रियमाणं तत्परिव्याणं होता (३) “युवा सुवासाः” इत्यनेन मन्त्रेणाऽनुवदति । तदेतदुभयं चोदकपरम्परया(४) कुण्डपायिनामयने प्राप्तम् । तत्राऽध्वर्योर्होतुश्च समास आम्नातः “यो होता सोऽध्वर्युः” इति। होतारमनूद्याऽध्वर्यु- त्वविधानादध्वर्युकार्यं होत्राऽनुष्टेयम् । ततः “परिवीरसि” इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत । तदानीं स्वस्य चोदकतः प्राप्त हौत्रमपि होता न त्यजेत् । न हि त्यागहेतुं कंचिन्निषेधं पश्यामः । तस्मास्क्रियमाणं तत्परिव्याणं "युवा सुवासाः” इत्यनेन मन्त्रेण होताऽनुवदेत् इति प्राप्ते- ब्रूमः-द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तुं न शक्नोति । ततोऽ- न्यतरस्याऽवश्यंभाविनि त्यागे चोदकतः प्राप्त होत्रमेव त्यजेत् । आध्वर्यवं तु “यो होता सोऽध्वर्युः" इत्यनेन प्रापितत्वादनुष्ठेयम् ॥ - इत्येकादशं होतुः करणमन्त्रानुष्ठातृत्वाधिकरणम् ॥ ११॥ १. तै. सं. १. ३. ६. २. ३. तै. ब्रा. ३.६. १. ३. २० जै० न्या० २. परिव्याणं वेष्टनम् । ४. कुण्डपायिनामयनाख्यः सत्रविशेषः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३०
एतत् पृष्ठम् परिष्कृतम् अस्ति