करणमन्त्रफलस्यत्विग्गामिताधि० ] तृतीयोऽध्यायः । २३१ . (१)“ममाऽग्ने वर्चो विहवेष्वस्तु” इत्ययमाहवनीयस्याऽन्वाधाने करणभूतो म- न्त्रोऽध्वर्युणा पठ्यते । विशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममाऽस्तु' इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम् इति चेत्- मैवम् ; "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यात्मनेपदश्रुत्या साङ्गप्रधानफ- लस्य यजमानगामित्वं प्रतीयते । न च परिक्रीतस्याऽध्वर्योर्दक्षिणातिरिक्तफल सम्बन्धो न्याय्यः । तस्मात् श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् । 'मदीययजमानस्य तदर्थोऽस्तु' इति ह्युपचारः । तस्मात् यजमानेन पाठयेषु "आयुर्दा- अग्नेऽस्यायुर्मे देहि" इत्यादिषु क्रियमाणानुवादिषु (२)प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम् , तथैवाऽध्वर्युणा पाठयेषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥ इति चतुर्दशं करणमन्त्रप्रकाश्यफलस्य याजमानताधिकरणम् ॥ १४ ॥ अथ पञ्चदशं करणमन्त्रफलस्य ऋत्विग्गामिताधिकरणम् ॥१५॥ पञ्चदशाधिकरणमारचयति- मा मा सन्ताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत् । अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः ॥ २१ ॥ दर्शपूर्णमासयोराधारहोमार्थमाज्यपूर्णौ ३) स्रुक्स्नुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयति । तत्राऽयं करणमन्त्रोऽध्वर्युणा पठ्यते-(४)“अग्नाविष्णू मा वामवक- मिषं विजिहाथां मा मा सन्ताप्तं लोकं मे लोककृतौ कृणुतम्” इति । 'भोः (५)स्रुक्स्नु. वरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृत- वानस्मि । युवां च मत्तो वियुक्तौ मा भवतम् । ततो मां देहधारिणं मा सन्ताप्तं मम देहे सन्तापं ज्वरादिरूपं मा कुरुतम् । स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्' इत्यर्थः । तत्र पूर्वोक्तवर्चोन्यायेन सन्तापाभावोऽपि यजमानस्यैव, न त्वध्वर्योः इति चेत्- मैवम् ; अध्वर्यावसन्तप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते । तस्मात् अध्व- र्युगतोऽपि सन्तापाभावो यजमानस्यैव फलमिति नाऽत्र मच्छब्दस्योपचारः ॥ इति पञ्चदशं करणमन्त्रफलस्य ऋत्विग्गामिताधिकरणम् ॥ १५ ॥ तै. सं.४. ७. १४. १. २. स्वात्मनि फलप्रार्थनरूपा मन्त्रा प्रत्यगाशीमन्त्राः । तै. सं. १. १. १२. अत्र उखुवावग्नाविष्णुत्वेनोपचर्येते । ३, ५. जुहूपभृताविति युक्तम् । १.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३२
एतत् पृष्ठम् परिष्कृतम् अस्ति