२३२ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ८. अधि.१७. - अथ षोडशं भद्रादेरुभयगामित्वाधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- भद्रं तन्नौ सहेत्येतत्कस्मिन् स्वामिनि युज्यते । द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः ॥ २२ ॥ ज्योतिष्टोमे-हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्ने- य्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते । तेष्वेकस्मिन्नुपरवे यजमानो दक्षि- णहस्तं प्रसारयति, तथैवाऽध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याऽधस्ताद्यजमानहस्तं गृह्णाति । तदा यजमानः 'किमत्र' इत्यनेन मन्त्रेण फलं पृच्छति । अध्वर्युश्च ‘भद्रम्' इत्यनेन मन्त्रेणोत्तरं ब्रूते । ततो यजमानः 'तन्नौ सह' इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वीकरोति । तस्मात् यजमानस्यैव तत् इति चेत्- मैवम् ; 'नौ' इत्यनेन, द्विवचनेन 'सह' इत्यनेन चोभयगामितयैव स्वीकारात् ॥ इति षोडशं भद्रादेरुभयगामिताधिकरणम् ॥ १६ ॥ , अथ सप्तदशं धर्माणां प्राकृतकार्यार्थत्वाधिकरणम् ॥१७॥ सप्तदशाधिकरणमारचयति- धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः । प्राप्तिर्विशेषतो वाऽऽद्यो विशेषस्याऽनिरूपणात् ॥ २३ ॥ प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे । यूपावटास्तृतिः कार्यं न हि प्राकृतबर्हिषः ॥ २४ ॥ दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्धर्माश्च हविरासादनादयोऽङ्गप्रधानार्था इति पूर्वत्र निर्णी- तम् ।ते च धर्मा विकृतावतिदिश्यमाना नियामकाभावात्सर्वेऽप्यतिदिश्यन्ताम् इति प्राप्ते- ब्रूम:-कार्यमत्र नियामकम् । प्रकृतौ हि हविरासादनं वेदिकार्यम् । तच्च विकृ- तावपि प्राप्यमाणं स्वसिद्धये खननादीन्वेदिधर्मान् प्रापयति । यूपावटास्तरणरूपं तु कार्यं न प्रकृतावस्ति, दर्शपूर्णमासयोर्यूपावटाभावात् । तच्चाऽऽस्तरणकार्य विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृतान् लवनादीन् बहिस्संस्कारान्न प्रापयति । तस्मा. त्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते ॥ इति सप्तदशं धर्माणां प्राकृतकार्यार्थत्वाधिकरणम् ॥ १७ ॥ -
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३३
एतत् पृष्ठम् परिष्कृतम् अस्ति