पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३४
सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.८.अधि. २१.
'शकलं निदधाति' इति द्वितीयया संस्कार्यत्वं गम्यते । इष्टशिष्टस्य हि प्रतिपत्तिरूपः सं-
स्कारः। न चाऽत्र कृत्स्नं यजनार्थम् , अवदानस्येयत्तया पुरोडाशभागस्याऽवशेषितत्वात् ।
यथाऽत्र पूर्वसिद्धपुरोडाशशकलम् , तथा (१)"धाना आश्विनपात्रे" "पयस्यां मैत्राव-
रुणपात्रे” इत्यत्राऽपि पूर्वशेषस्यैव प्रक्षेपः ॥
इत्येकोनविंशं शेषनिधानाधिकरणम् ॥ १९ ॥
अथ विंशमुपांशुत्वस्य प्रधानार्थत्वाधिकरणम् ॥ २० ॥
विंशाधिकरणमारचयति-
काम्या उपांशु यष्टव्याः किं तदङ्गप्रधानयोः ।
प्रधान एव वा नाऽत्र विशेषोक्तिरतो द्वयोः ॥ २८ ॥
मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना ।
अङ्गानामतथाभावादुपांशुत्वं प्रधानगम् ।। २8 ।।
इदमाम्नायते–“यज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु यष्टव्याः" इति ।
अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोप्याः। तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः ।
यथा वेदिधर्माणां बर्हिर्धर्माणां चाऽङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्याऽपि ।
न ह्यत्र कश्चिद्विशेष आम्नात इति चेत्-
मैवम् ; काम्यत्वस्यैवाऽत्र विशेषनियामकत्वात् । न त्वङ्गानां काम्यत्वमस्ति,
करणपौष्कल्यसम्पादकानां तेषां फले साक्षात्सम्बन्धाभावात् । ततः साक्षात्फलसाधने
प्रधान एवोपांशुत्वम् । अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः ॥
इति विंशमुपांशुत्वस्य प्रधानार्थत्वाधिकरणम् ॥ २० ॥
j
-
अथैकविंशं द्वतिनवनीताज्याधिकरणम् ॥ २१ ॥
एकविंशाधिकरणमारचयति-
नवनीतं श्येन आज्यं मुख्येऽङ्गे वाऽस्तु मुख्यगम् ।
विधेयमाज्यमप्राप्तं दृतिस्थनवनीतकम् ।। ३० ॥
१. धानाः भ्रष्टा यवाः। पयस्या आमिक्षा।