सवनीयपुरोडाशस्य मांसमयत्वाधि० ] तृतीयोऽध्यायः । २३५ मुख्यः सोमविकारोऽङ्गे चोदकप्राप्तमाज्यकम् । अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः ॥ ३१॥ श्येने श्रूयते-(१)"दृतिनवनीतमाज्यं भवति" इति । दृतौ चिरं संगृहीतं नव- नीतं यस्याऽऽज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानक- र्मणि विधेयम् इति चेत्- मैवम् ; प्रधानश्येनस्य सोमयागविकारत्वेनाऽऽज्यापेक्षाया अभावात् । अङ्गेष्वि- ष्टिविशेषेषु चोदकप्राप्तस्याऽऽज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते ॥ इत्येकविंशं दृतिनवनीताज्याधिकरणम् ॥ २१ ॥ अथ द्वाविंशं श्येनाङ्गानां दृतिनवनीताज्यताधिकरणम् ॥ २२ ॥ द्वाविंशाधिकरणमारचयति- सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः । आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसङ्गतिः ॥ ३२ ॥ योऽयं श्येनस्याऽङ्गेषु दृतिनवनीतत्वगुणो विहितः, सोऽयं सुत्याकालीनेष्वेव सव- नीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु । विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात् , पशुसाहित्यवत् । यथा “सह पशूनाल- भते" इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सव- नीयपशुष्ववस्थितम् , तथा नवनीतमपि इति प्राप्ते- ब्रूमः—'यदाज्यं तत् दृतिनवनीतम्' इति वाक्येन सर्वाङ्गताज्यविषयत्वप्रतीता. वनुमानं कालात्ययापदिष्टम् । तस्मात् सर्वेष्वङ्गेषु तन्नवनीतम् ॥ इति द्वाविंशं श्येनाङ्गानां दृतिनवनीताज्यताधिकरणम् ॥ २२ ॥ - अथ त्रयोविंशं सवनीयपुरोडाशस्य मांसमयत्वाधिकरणम् ॥ २३ ॥ त्रयोविंशाधिकरणमारचयति- शाक्यायने पुरोडाशास्तरसा इति मांसता । सर्वत्र सवनीये वा, सर्वत्र नवनीतवत् ॥ ३३ ॥ १. दृतिः चर्ममयी भस्त्रा।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३६
एतत् पृष्ठम् परिष्कृतम् अस्ति