पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्थवादाधिकरणम् ] प्रथमोऽध्यायः । ५३ भूतिं गमयतीत्यर्थवादः । तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनै- रपेक्ष्येणैव विशिष्टमर्थं विदधति । अर्थवादशब्दाश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते। 'क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छतीत्युक्ते रामा- यणभारतादाविव वृत्तान्तः कश्चित्प्रतीयते, न त्वनुष्ठेयं किंचित् । अत एकवाक्यत्वाभावा- न्नाऽस्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते-- ब्रूमः- —मा भूत्पदैकवाक्यता । (१)वाक्यैकवाक्यता तु विद्यते । विधिवाक्यं तावत्पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते । अर्थवादवाक्यं च फलवदर्थावबोध- पर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते। तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते । 'यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वाय- व्यं पशुमालभेत' इति वाक्ययोरन्वयः । तस्मादर्थवादा धर्मे प्रमाणम् ॥ अस्मिन्नेवाऽधिकरणे मतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह- वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् । सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ ॥ ४ ॥ 'यतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेतेत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते । ततः(२)सापेक्षत्वादप्रामाण्यभिति पूर्वपक्षः । १. पदैकवाक्यतावाक्यैकवाक्यतयोरयं निष्कर्षः-यत्राऽर्थवादवाक्यस्य प्राशस्त्ये लक्षणामङ्गीकृत्य पदार्थविधयोपस्थितस्य प्राशस्त्यस्य विध्याख्यातार्थेऽन्वयः, तत्र पदैकवाक्यता । यत्र च पदाभिहितपदाथानामाकाङ्क्षादिभिर्मिथस्सम्बन्धे ज्ञाते पुनश्च शेषशेषिभावाद्याकांक्षायां वाक्यार्थयोरन्वयो भवति तत्र वाक्यैकवाक्यता। यथा- 'समिधो यजति' 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'ति वाक्यद्वयघटकीभूतपदैरु- पस्थितानां पदार्थानामाकांक्षादिभिर्मिथस्सम्बन्धे ज्ञाते 'समिद्यागेन भावयेत्। 'दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्' इति द्वौ वाक्यार्थी निष्पद्यते । अनयोर्मध्ये प्रथ- मस्य शेष्यपेक्षा, द्वितीयस्य च शेषापेक्षेति परस्परं तद्रूपेणाऽन्वये जाते 'समिदा- द्यङ्गयागोपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्ग भावयेदिति योऽयं वाक्यार्थस्सोऽयं वाक्यैकवाक्यताबललभ्यः । एवमेव प्रकृतेऽपि विध्यर्थवादोपस्थितवाक्यार्थयोः परस्परं शेषशेषिभावापेक्षया यो वाक्यार्थः—'यतश्शीघ्रगामिस्वभावतया शीघ्रफ- लप्रदो वायुरस्य पशोर्देवता, अतः प्रशस्तमिदं वायुदेवताकं कर्म कुर्यादिति स वाक्यै- कवाक्यतया निष्पन्न इति । २. यथा 'मलिनस्स्नायात्' 'मलिनानि मे वसनानि, न राजकुलं मया गन्तव्यमि' त्यादिषु स्नानादिकार्ये मालिन्यादेहेतुत्वेनाऽन्वयाद्धेतुसापेक्षत्वलक्षणमप्रामाण्यम्, तथोक्त- कार्ये हेतुत्वेनाऽन्वयाद्धेनुसापेक्षत्वलक्षणमप्रामाण्यं विधिवाक्यानामिति पूर्वपक्ष्यभिप्रायः।