हेतुवन्निगदाधिकरणम् ] प्रथमोऽध्यायः । 3- , ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते- ब्रूमः-अयमूर्गवरोधः कस्य फलं स्यात्-किमविहितस्यौदुम्बरत्वस्य ? उत वि. हितस्य ? नाऽऽद्यः-अनुष्ठानमन्तरेण द्रव्यमात्रात्फलानुत्पत्तेः । द्वितीये किमत्र विधिः प्रत्यक्षः ? उतोन्नेयः ? नाऽऽद्यः-'औदुम्बरो यूपो भवतीत्यत्र लिङ्प्रत्ययाश्रवणात् । द्वितीये स्तुत्या स उन्नेयः । न चाऽत्र स्तुतिमङ्गीकरोषि । अथोच्येत-विधानायौदुम्ब- रत्वं स्तूयते तत्फलं चाऽवबोध्यत इति, तर्हि(१)वाक्यं भिद्येत । ततः फलविधिवन्निग- द्यमानमप्येतद्वाक्यं स्तावकमेव ॥ अत्रैव गुरुमतेन पूर्वोत्तरपक्षावाह- आप्नोतीति विधित्वस्य वादत्वस्याऽप्यनिर्णयात् । न प्रमा चोदनेत्येतन्न वादो ह्येकवाक्यता ॥ ८ ॥ 'ऊर्जं पशूनाप्नोतीस्त्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङाद्यभावादर्थवादत्वम् । अतस्संदिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः । एकवाक्यत्वलाभेनाऽर्थवादत्वं निर्णीयते । अतः प्रमाणं चोदनेति राद्धान्तः ॥ इति द्वितीयं विधिवन्निगदाधिकरणम् ॥ २ ॥ अथ तृतीयं हेतुवन्निगदाधिकरणम् ॥ ३॥ (२) तृतीयाधिकरणमारचयति- तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः। हिना श्रुता हेतुताऽतः शूर्पमन्यच्च साधनम् ॥ ६ ॥ शूर्पसाधनता श्रौती नाऽश्रौतैः सा विकल्प्यते । अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका ॥ १० ॥ १. अयं भावः-अत्र प्रत्यक्षविधेरश्रवणात्स्तुतिबलेनैव स वक्तव्यः । तदर्थञ्चाऽस्य स्तावकत्वं वक्तव्यम् । अनन्तरं च तेन वाक्येन स्तुतावुपयुक्तेन फलमपि बोधनीयमि- त्येकेनैव वाक्येनाऽर्थद्वयकथने वाक्यभेदः प्रसज्यत इति । २. पूर्वाधिकरणे विधिवन्निगदानां सर्वेषामर्थवादानां कमिपदाद्यभावेन फलपरत्वं निराकृत्य स्तुत्यर्थत्वे प्रतिपादितेऽपि यत्र हिशब्दादिश्रवणात् हेतुविधित्वं संभवति, तत्र तदेवाऽङ्गीकर्तुमुचितं, न तु स्तावकत्वं केवलमगतिकगतिकमिति पूर्वपक्षोत्थानात्पू- र्वाधिकरणेनाऽस्य प्रत्युदाहरणरूपा सङ्गतिः । ३ जै० न्या०
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२६
एतत् पृष्ठम् परिष्कृतम् अस्ति