२६ सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा. २. अधि. ४. इदमास्वायते-(१) शूर्पेण जुहोति, तेन ह्यन्नं क्रियत' इति । अयमर्थवादो विधेये शूर्प हेतुत्वेनाऽन्वेति । हिशब्दस्य हेतुवाचित्वात् । यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यमित्युक्ते 'यद्यदन्नसाधनं दरवीपिटरादिकं तेन सर्वेण होतव्यमिति लभ्यते । ततः पिठरादयः शूर्पेण सह विकल्प्यन्त इति प्राप्ते- ब्रूमः--शूर्पस्य होमसाधनत्वं श्रौतम् , तृतीयया तदवगमात् । पिठरादीनां त्वानुमानिकम् । अतोऽसमानबलत्वान्न विकल्पो युक्तः । ततो हेतुर्व्यर्थः, स्तुतिः प्ररोचनायोपयुक्ता । तस्मात्स्तुतित्वेनाऽन्वयः ॥ इति तृतीयं हेतुवन्निगदाधिकरणम् ॥ ३ ॥ अथ चतुर्थ मन्त्राधिकरणम् ॥ ४ ॥ (२)चतुर्थाधिकरणमारचयति- मन्त्रा उरु प्रथस्वेति किमदृष्टकहेतवः । यागेषूत पुरोडाशप्रथनादेश्च भासकाः ॥ ११ ॥ ब्राह्मणेनाऽपि तद्भानान्मन्त्राः पुण्यैकहेतवः । न, तद्भानस्य दृष्टत्वाद्दृष्टं वरम दृष्टतः ॥ १२ ॥ (३) उरु प्रथस्वेत्ययं कश्चिन्मन्त्रः । तस्याऽयमर्थः-भोः पुरोडाश, त्वमुरु विपु- १. चातुर्मास्येषु सन्ति चत्वारि पर्वाणि-वैश्वदेववरुणप्रघाससाकमेधशुनासीरीया- ख्यानि । तेषु द्वितीये वरुणप्रघासपर्वणि करम्भपात्राणां होमो विहितः-'करम्भपात्राणि जुहोती' ति (का. श्री. ५. ५. १०, आप. श्री. ८. ६. २३.) पात्राण्येव चाऽत्र होमद्रव्यम् । तन्निर्माणप्रकारश्चेत्थम्-यवानीषद्भर्जयित्वा तान् पिष्ट्वा जलेन संयुत्य तेन पिटेन क्षुद्राकाराणि पात्राणि क्रियन्ते । कृत्वा च तत्र शमीपत्रमिश्राणि करीराणि निक्षिप्य, तानि च पात्राणि नवे शूर्पे निधाय, तत् शूर्प पत्नी खशिरसि निक्षिप्य यज- मानान्वारब्धा दक्षिणविहारस्थितेऽग्नौ जुहुयात् । तदेतदुच्यते—'शूर्पण जुहोती'ति । शमीपत्रमिश्राणि करीराणि, खजूराङ्कुराणि वा करम्भः। तदाधारभूतत्वात्पात्राणि, कर- म्भपात्राणीत्युच्यन्ते इति रुद्रदत्तः । दधिसिक्ता यवसक्तवः करम्भ इति सायणः । २. विधिसमभिव्याहृतानामर्थवादानां सर्वेषां विचारं परिसमाप्याऽनन्तरं तदसम- भिव्याहृतानां मन्त्राणां प्रामाण्याप्रामाण्यविचारः क्रियत इति पूर्वाधिकरणेनाऽस्याऽवसर- सङ्गतिः। ३. 'उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामि' ( तै. सं. १.१. ८.) ति समग्रो मन्त्रः।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२७
एतत् पृष्ठम् परिष्कृतम् अस्ति