यववराहाधिकरणम् ] प्रथमोऽध्यायः । ३३ - (१)अस्मिन्नेवाऽधिकरणे गुरुमतमाह- यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् । न, शास्त्रस्य बलित्वेन तत्प्रसिद्धयाऽर्थनिर्णयात् ॥ १६ ॥ स्पष्टोऽर्थः ॥ , (वार्तिककारमतेन स्मृत्याचारविरोधे बालाबलाधिकरणम् ) अस्मिन्नेवाऽधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति- यो मातुलविवाहादौ शिष्टाचारः स मा न वा । इतराचारवन्मात्वं, अमात्वं स्मार्तबाधनात् ॥ १७॥ स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततोऽत्र च । अनुमेया स्मृतिः, स्मृत्या बाध्या प्रत्यक्षया तु सा ॥ १८॥ केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति। सोऽयमाचारः प्रमाणम् , शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत्- न; स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् । तथा च स्मृतिः- (२)“मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत् ॥ इति ॥ न च स्मृत्याचारयोर्मूलवेदानुमापकत्वसाम्यात्समबलत्वमिति शङ्कनीयम् । होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् । न हीदानीन्तनाः शिष्टा मन्वादिवदेशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तुं शक्नुवन्ति । येन शिष्टाचारो मूलवेदमनुमापयेत् । शक्नोति च यः कोऽपि शिष्टो यत्र क्वाऽपि देशविशेषे कालविशेषे च यं कञ्चनाऽपि होलाकाद्याचारस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् । तस्माच्छिष्टा- चारेण स्मृतिरेवाऽनुमातुं शक्यते, न तु श्रुतिः । अनुमिता च स्मृतिर्विरुद्धया प्रत्यक्षया स्मृत्या बाध्यते । अत एवाऽऽहुः- (३)"आचारत्तु स्मृतिं ज्ञात्वा श्रुतिर्विज्ञायते ततः । तेन त्व्यन्तरितं तस्य प्रामाण्यं विप्रकृष्यते” ॥ इति । तस्मादीदृशस्याऽऽचारस्याऽप्रामाण्यमभ्युपेयम् ॥ न १. अत्रैव गुरुमतमाहेति क. पु. । २. वचनमिदं शातातपीयत्वेनोपन्यस्तं निर्णयसिन्धुप्रभृतिषु ग्रन्थान्तरेषु, परन्तु मुद्रितायां शातातपस्मृतौ वचनमिदं नोपलभ्यते । ३. तं. वा. १. ३. ४. पृ. २२०.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३४
एतत् पृष्ठम् परिष्कृतम् अस्ति