सविस्तरायां जैमिनीयन्यायमालायां [अ. १. पा.३.अधि.8 पारम्पर्येणाऽनुवर्तते । ततः कालिदासादिग्रन्थवत्पौरुषेयाःतथाऽपि वेदमूलक- त्वात्प्रमाणम् ॥ अत्रैव गुरुमतमाह- - कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा । न, कल्पे साध्यवेदत्वप्रहाणादुर्बलत्वतः ॥ २५ ॥ सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह-(१)“सर्वासु तिथिष्वमावास्या कर्तव्या” इति । श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते। ततः कल्पसूत्ररूपेण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत्-- मैवम् ; कल्पस्य वेदत्वं नाऽद्याऽपि सिद्धम् । किन्तु यत्नेन साध्यम् । न च तत्साधयितुं शक्यम् । पौरुषेयत्वस्य समाख्यया, तत्कर्तुरुपलम्भेन च साधितत्वात् । अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् ॥ इति सप्तमं कल्पसूत्राधिकरणम् ॥ ७ ॥ अथाऽष्टमं होलाकाधिकरणम् ॥ ८ ॥ (२)अष्टमाधिकरणमारचयति- होलाकादेर्व्यवस्था स्यात्साधारण्यमुताऽग्रिमः । देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः ॥ २६ ॥ होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चाऽनुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् । कुतः ? देशविशेषे तेषां दृष्टत्वात् । होलाकादयः प्राच्यैरेव क्रियन्ते, वसन्तोत्सवो होलाका । आह्निनैबुकादयो दाक्षिणात्यैः, स्वस्वकुलागतं करजार्कादिस्था- वरदेवतापूजादिकमाह्नीनैवुकशब्देनोच्यते। उद्वृषभयज्ञादय उदीच्यैः, ज्येष्टमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सोऽयमुदवृषभयज्ञः। एवं हारीतादिस्मृतिः काचित्क्वचिद्देश विशेषे दृश्यते । तस्माद्यवस्थितं प्रामाण्यमिति चेत्- मैवम् । तन्मलत्वेनाऽनुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधार- , णत्वात् ॥ १. 'आपौर्णमास्या अमावास्या नाऽत्येती' ( गो. भृ. १. ९. १४.) इति गोभि- लगृह्यसूत्रं द्रष्टव्यम् । २. एवं तावत् स्मृतीनामाचाराणाञ्च सापवादं वेदमूलत्वेन प्रामाण्यमभिहितम् । अधुना तदेव विषयपरिशोधनेन दृढीक्रियत इति प्रासङ्गिकी सङ्गतिः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/३७
एतत् पृष्ठम् परिष्कृतम् अस्ति