चित्राधिकरणम् ] प्रथमोऽध्यायः । >
तथाचोक्तम्- (१) प्राप्ते कर्मणि नाऽनेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः" ॥ इति । अथ वाक्यभेदपरिहाराय गुणद्वयविशिष्टं पशुद्रव्यरूपं कारकं विधीयते, गौरवं स्यात् । तस्माचित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति। चित्रत्वं च तस्य विलक्षणद्रव्यद्वारेणोपपद्यते । (२)"दधि, मधु, घृतं, आपः, धानाः, तण्डुलास्तत्संसृष्टं प्राजापत्यम्” इति दध्यादोनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि । तदेतचित्रानामक स्य यागस्योत्पत्तिवाक्यम् । यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेव- तयोरत्रोपदिश्यमानत्वात् । उत्पन्नस्य तस्य यागस्य 'चित्रया यजेत पशुकामः' इत्येत- त्फलवाक्यम् । एवं सति प्रकृतार्थो लभ्यते । अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । लिङ्प्रत्ययस्याऽनुवादकत्वाङ्गीकारान्मुख्यो विध्य- र्थो बाध्येत । तस्माचित्रापदं नामधेयम् । यथा चित्राशब्दे नामधेयत्वम् , तथा बहिष्पवमानशब्दे, पृष्ट शब्दे च तन्नामधे. यत्वं योजनीयम् । एवं हिं श्रूयते—(३) त्रिवृद्धहिष्पवमानम् , पञ्चदशान्याज्यानि, सप्तदशानि पृष्ठानीति । अस्य वाक्यत्रयस्याऽर्थो विव्रियते-सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि । तत्र (४)"उपास्मै गायता नरः"इत्याद्यं सूक्तम् । १. तं. वा. २. २. ३. पृ. ४८५. २. तै. सं. २. २. ३. ८. ३. ( ता. बा. २०. १. १.) ज्योतिष्टोमे सन्ति द्वादश स्तोत्राणि-बहिष्पव- मानमेकम् , चत्वार्याज्य स्तोत्राणि, चत्वारि पृष्टानि, माध्यन्दिनपवमानमेकम् , आर्भव- पवमानमेकम् , यज्ञायज्ञीयमेकमिति । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणिनिष्टगुणाभिधा- नम् । तदिदं स्तोत्रं सदोनामकमण्डपे औदुम्पर्याख्यस्थूणासमीपे उपविष्टरुद्गातृप्रस्तो- तृप्रतिहाख्यस्त्रिभिः ऋत्विग्भिः कर्तव्यत्वेन विहितम् । तत्रैकैकस्य च स्तोत्रत्य 'एक साम तृचे क्रियते स्तोत्रीयमिति विधिबलात् तिसृषु ऋक्षु एकं साम गातव्यं भवति । तत्र च त्रिवृत् , पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः, चतुर्विशः, चतु. श्चत्वारिंशः, अष्टाचत्वारिंश इति नव प्रकारास्संख्याविशेषा उक्ताः । इम एव संख्या- विशेषाः स्तोमशब्देनाऽभिधीयन्ते । तत्र बहिष्पवमानाख्यं स्तोत्रं परं “बहिष्पवमा- न सर्पन्तो” ( तां. वा. ६. ७. ९. ) ति विधिना सदसो बहिः चात्वालदेशं प्रति प्रसर्पणसमये कर्तव्यत्वेन विहितम् । अत एवाऽस्य स्तोत्रस्य बहिस्सम्बन्धात् पवन- क्रियाकर्तृप्रकाशकमन्त्रवटितत्वाच्च बहिष्पवमानमिति संज्ञा । तथा च बहिष्पवमा- नाख्यं स्तोत्रं त्रिवृत्स्तोमकं कर्तव्यमिति वाक्यार्थः पर्यवसन्नः । ४. उपास्मै गायता नरः पवमानायेन्दवे । अभि देवां इयक्षते ॥ १ ॥ अभि ते मधुना पथाऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥ २ ॥ सनः पवस्व शं गवे शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥ ३ ॥ सा. सं. उ. १.१.१. - , , , 1