सविस्तरायां जैमिनीयन्यायमालायां , रमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते- प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । जैमिनीयन्यायमाला श्लोकैस्सङ्गृह्यते स्फुटम् ॥ ६॥ जैमिनिप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः । तेऽस्य ग्रन्थस्य विषयः । पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटोभावः प्रयोजनम् । न्यायमाला सगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा ॥ करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति- एको विषयसन्देहपूर्वपक्षावभासकः । श्लोकोऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते ॥ ७ ॥ चत्वारोऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् । यत्र क्वाऽपि बहुश्लोकैरुच्यन्तेऽतो न विस्तरः ॥ ८ ॥ एकैकस्याऽधिकरणस्य विषयः, सन्देहः, सङ्गतिः, पूर्वपक्षः, सिद्धान्तश्चेति पञ्चावय- वाः । तत्र सङ्गतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते । अवशिष्टानां चतुर्णामवयवानां सङ्ग्राहकाः क्वचिद्बहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे सङ्ख्या पर्यवस्यति । अतो बहुत्वा- द्विभ्यता ग्रन्थगौरवशङ्का न कर्तव्या ॥ तमेव ग्रन्थगौरवाभावं स्पष्टीकुर्वन् रूपकव्याजेन सुबोधत्वं दर्शयति- सर्वथाऽपि सहस्रे द्वे नातिक्रामति सङ्ग्रहः । मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत् ॥ ६ ॥ श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासम्भवं न्यायस्सगृह्यते । सर्वथाऽपि सहस्रन्याय- सङ्ग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समाप्स्यते, न तु सहस्रद्वयमतिक्रामति । भा- ष्यटीकादीनां बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसमा पूर्वमासीत् । क्रियमाणेनाऽनेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थ निर्मितया नाभिदध्न्या पुष्करिण्या समा भविष्यति। यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्सङ्ग्रहश्लोकोऽस्ति, तथाऽपि न सर्वत्र विद्यते । यत्राऽस्ति, तत्राऽपि विषयसंशययोरसङ्ग्रहान्न श्लोकपाठमात्रेणाऽधिकरणमुपन्य- सितुं शक्यते । अतो न क्वाऽपि गतार्थत्वं शङ्कनीयम् ॥ सङ्गतिं व्युत्पादयति- शास्त्रेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा । शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम् ॥ १० ॥
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५
एतत् पृष्ठम् परिष्कृतम् अस्ति