तत्प्रख्याधिकरणम् ] प्रथमोऽध्यायः । ४९ , विष्टातेरेवमाम्नायते-(१)“पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स एकया, सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः" इति । अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ मध्यमोत्तमयोः। सोऽयं सप्तदशस्तोमः। अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चद- शसप्तदशशब्दा गुणविधायकत्वेन संमताः । यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुण- विधायकाः स्युः, तदा प्रत्युदाहरणम् । गुणद्वयविधानाद्वाक्यभेदः स्यात् । तस्माद्वहि- ष्पवमानादिशब्दास्स्तोत्रनामधेयानि । तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते ॥ 2 इति तृतीयं चित्राधिकरणम् ॥ ३॥ अथ चतुर्थ तत्प्रख्याधिकरणम् ॥ ४॥ (२)चतुर्थाधिकरणमारचयति- अग्निहोत्रं जुहोत्याघारमाघारयतीत्यम् । विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी ॥ ८ ॥ ( तां. वा. ७. ८. १. ) इत्यार्तवयुक्तानामपां पृष्ठे वायोः स्पर्शनाद्वामदेव्याख्य- सामोत्पत्तिमभिधाय तस्माच्च पृष्ठस्तोत्राणां उत्पत्तिरभिहिता । ततश्च स्पर्शाजन्यत इति पृष्ठमिति निरुक्तिः । अत्रेदमवधेयम्-अत्रैव ताण्ड्यमहाब्राह्मणे-'तावतां वामं मर्या इदं देवेष्वजनीति तस्माद्वामदेव्यम्' ( ताण्ड्य. ७. ८. १. ) ( तौ मित्रावरुणौ कथयतां- हे माः इदं साम देवेषु वामं प्रार्थनीयमजनि, यस्मादेवं तस्माद्वामदेव्यं ) इति वाम- देव्यशब्दव्युत्पत्तिरभिहिता। एवं 'यदकालयन्त तस्मात्कालेयम्' (तां. बा. ८. ३. १. यस्माद्देवा असुरानेभ्यो लोकेभ्योऽकालयन्त अपानुदन् तस्मादिदं साम कालेयमित्यु- च्यते ) इति कालेयशब्दनिरुक्तिरुक्ता । भगवता पाणिनिमहर्षिणा तु-'दृष्टं सामे' त्यधिकृत्य 'कलेर्डक्' ( पा. सू. ४. २. ८.) कलिना ( ऋषिणा ) दृष्टं कालेयं साम, 'वामदेवाडयड्यौ' वामदेवेन ( ऋषिणा ) दृष्टं वामदेव्यमिति कालेयवामदेव्यशब्दो निरुक्ताविति । १. तां. बा. २. ७. १. २. 'अग्निहोत्रं जुहोती' त्यादौ पूर्वाधिकरणाभिहितवाक्यभेदापादकगुणविधित्वनि- राकरणहेतोरभावेनाऽग्निहोत्रादिपदानां गुणसमर्पकत्वमेवाऽस्त्विति पूर्वपक्षोत्थानात्प्रत्यु- दाहरणसंगतिः । ५ जै० न्या०
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/५०
एतत् पृष्ठम् परिष्कृतम् अस्ति