ग्रन्थावतरणिका ] in प्रथमोऽध्यायः । 5 , , शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्चेति त्रिधा सङ्गतिः । सा च शास्त्रादीनां त्रयाणामसाधारणे विषये ज्ञाते सति स्वयमेवोहितुं शक्या ॥ शास्त्रस्याऽध्यायानां चाऽसाधारणं विषयं दर्शयति-- धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥ ११ ॥ अधिकारोऽतिदेशश्च सामान्येन विशेषतः । ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ।। १२ ।। लक्षणान्यध्यायाः । द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी । तादृशस्य द्वाद- शलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः। प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमा- द्द्वादशानामध्यायानां विषयाः । प्रथमेऽध्याये-(१)विध्यर्थवादादिरूपं प्रमाणं निरू- पितम् । द्वितीये-यागदानादिकर्मभेदः। तृतीये-प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् । चतुर्थे-गोदोहनस्य पुरुषार्थत्वप्रयुक्त्याऽनुष्टानम् , न तु क्रत्वर्थत्वप्रयु- क्त्येत्येवमादयः । पञ्चमे-क्रमनियतिविधेयत्वादयः । षष्ठे-कर्तुरधिकारो, नान्धादे- रित्यादयः । सप्तमे-“समानमितरच्छयेनेने त्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्ना- ऽनुमितवचनेन च सामान्यतोऽतिदेशः । अष्टमे-“सौर्यं चरुं निर्वपेत्' इत्यत्र निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतात्वं, औषधद्रव्यकत्वमिति लिङ्गेनाऽऽग्नेयपुरोडाशेतिकर्त- व्यतैव, नाऽन्यस्येत्येवमादिवर्विशेषतोऽतिदेशः । नवमे-प्रकृतौ “अग्नये जुष्टं निर्वपामी” ति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण 'सूर्याय जुष्टं निर्व- पामीत्येवमायूहः । दशमे-कृष्णलेषु(२) चोदकप्राप्तस्याऽवघातस्य वितुषीकरणासम्भवेन लोप इत्येवमादिर्बाधः । एकादशे-बहूनामाग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रया- जाद्यङ्गेनोपकार इति तन्त्रम् । द्वादशे- -प्रधानस्य पशोरुपकारायाऽनुष्ठितेन प्रयाजाद्य- ङ्गेन पश्वङ्गपुरोडाशेऽप्युपकार इत्यादिप्रसङ्गः ॥ पादानामसाधारणं विषयं दर्शयति-- विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् । प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम् ॥ १३ ॥ प्रथमे पादे-विधिरूपं मानमीरितम् । द्वितीये-अर्थवादरूपम् । अर्थवादो मन्त्र- स्याऽप्युपलक्षकः । तृतीये-स्मृतिरूपम् । स्मृतिराचारमप्युपलक्षयति। चतुर्थे-उद्भि- चित्रादिनामरूपम् ॥ १. अत्रादिपदेन मन्त्रस्मृत्याचारनामधेयसामर्थ्यवाक्यशेषा ग्राह्याः २. अतिदेशप्राप्तस्येत्यर्थः । , , ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/६
एतत् पृष्ठम् परिष्कृतम् अस्ति