मन्त्रलक्षणाधिकरणम् ] द्वितीयोऽध्यायः। ७९ मन्त्रणादयः । ()"बहिर्देवसदनं दामि' इत्युतमपुरुषः । (२)"अग्नीदग्नीन्विहर" इत्यामन्त्रणम् । एवं ब्राह्मणेऽपि (३)“यस्योभयं हविरार्त्तिमार्छेत्” इत्युदाहरणी- यम् । तस्मात्-आख्यातस्य प्रधानकर्मविधायकत्वं गुणकर्मविधायकत्वं चेत्येवं द्वावेव प्रकारौ न भवतः, किन्तु 'अभिधायकत्वम्' इत्यप्यस्ति तृतीयः प्रकारः । ततो न मन्त्रगताख्यातस्य विधायकत्वम् । इति षष्ठं विधिमन्त्राधिकरणम् ॥ ६ ॥ - अथ सप्तमं मन्त्रलक्षणाधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- अहे बुध्निय मन्त्रं म इति मन्त्रस्य लक्षणम् । नाऽस्त्यस्ति वाऽस्य नाऽस्त्येतदव्याप्त्यादेरवारणात् ॥ २२ ॥ याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् । तेऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते ।। २३ ।। आधान इदमाम्नायते-(४)"अहे बुध्निय मन्त्रं मे गोपाय” इति । तत्र मन्त्रस्य लक्षणं नाऽस्ति, अव्याप्त्यतिव्याप्त्योर्वारियितुमशक्यत्वात् । 'विहितार्थाभि- धायको मन्त्रः' इत्युक्ते(५) “वसन्ताय कपिजलानालभेतः' इत्यस्य मन्त्रस्य विधिरूप- त्वादव्याप्तिः । 'मननहेतुर्मत्रः' इत्युक्ते ब्राह्मणेऽतिव्याप्तिः । एवं 'असिपदान्तो १. ( #. सं. १. १. २.) देवोपसदनयोग्यं बर्हिः खण्डयामीत्यर्थः । २. (श.वा. ४.२.४.११. ) हे अग्नीत् अग्नीन् गार्हपत्यादीन् विहर प्रज्वालयेत्यर्थः । ३. (ते. ब्रा. ३. ७. १. ) यस्य यजमानस्य उभयं हविः सायंप्रातःकालिक चेत्युभयं दधिपयोरूपं आतिमार्छत् नश्येत् केनाऽपि कारणवशेन, स यजमानः तद्दो- षपरिहारार्थ इन्द्रदेवताकशरावपञ्चकपरिमितव्रीहिनिष्पन्नतण्डुलसम्पाद्यचरुद्रव्यकयाग- मनुतिष्टेदित्यर्थः । शरावः-मृन्मयपात्रविशेषः । मडक्कु इति द्रविडभाषायाम् , परई इति हिन्दीभाषायाञ्च प्रसिद्धः । ४. (ते. बा. १. २. १. २६.) अहिर्बुध्न्यः देवताविशेषः, परमेश्वर इति केचित् । हे अहे वुधिनय मदीयं मन्त्रं रक्ष । य मन्त्रं विद्यवृद्धाः जानन्तीत्यर्थः । ५. ( मा. सं. २४. २०, मै. सं. ३. १४. १. ) अश्वमेधप्रकरणस्योऽयं मन्त्रः । यद्यप्ययं मन्त्रत्वेन प्रसिद्धः, तथाऽप्यस्य विधिरेव कार्यम् । वसन्तदेवताकेन कपिञ्ज- लाख्यपशिविशेषत्रितय द्रव्यकेण यागेनेष्टं भावयेदित्यर्थः । 2 3 ,
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८०
एतत् पृष्ठम् परिष्कृतम् अस्ति