निगदाधिकरणम् ] द्वितीयोऽध्यायः। ८३ इदमाम्नायते-(१)"अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः- ऋचस्सामानि यजूंषि' इति । त्रीन्वेदान्विदन्तीति त्रिविदः, त्रिविदां संबन्धिनोऽध्येता- रस्त्रैविदाः । ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपायेति योजना । तत्र त्रिविधानामृक्सामयजुषां व्यवस्थितं लक्षणं नाऽस्ति । कुतः ? सांकर्यस्य दुष्परिहर- त्वात् । 'अध्यापकप्रसिद्धेह्युग्वेदादिषु पठितो मन्त्र ऋगादिः' इति हि लक्षणं वक्त- व्यम् । तच्च संकीर्णम् । (२)“देवो वः सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः” इत्ययं मन्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः । न च तस्य यजु- ष्वमस्ति । तद्ब्राह्मणे “सावित्र्यर्चा' इत्युक्त्वेन व्यवहृतत्वात् । (३) एतत्साम गाय- न्नास्ते” इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम् । “अक्षितमसि' "अच्युतमसि" "प्राणसंशितमसि” इति त्रीणि यजूंषि सामवेदे समाम्नातानि । तथा गीयमानस्य साम्न आश्रयभूता ऋचः सामवेदे समाम्नायन्ते ! तस्मात् नाऽस्ति लक्षणमिति चेत्- न; पादादीनामसंकीर्णलक्षणत्वात् । (४)पादेनाऽर्थेन चोपेता वृत्तवद्धा मन्त्रा ऋचः, गीतिरूपा मन्त्राः सामानि, वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि इत्युक्ते न काऽपि संकरः ॥ इति ऋक्सामयजुर्लक्षणाधिकरणम् ॥१०-१२ ॥ 2 अथ त्रयोदशं निगदाधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- प्रोक्षणीरासादयेति निगदस्त्रिविधाद्वहिः । यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता ॥ २८ ।। परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः । तल्लक्षणेन युक्तत्वात्रैविध्यमिति सुस्थितम् ।। २६ ॥ (५)"प्रोक्षणीरासादय" (६)"इध्माबर्हिरुपसादय” (५)"अग्निदग्नीन्विहर' १. ते. ब्रा. १. २. १.६. ( ते. सं. १. १. ५.) दर्शपूर्णमासयोः प्रोक्षण्युत्पवनार्थोऽयं मन्त्रः । हे आपः देवस्सविता छिद्ररहितेन पवित्रेण, व्यापकस्य सूर्यस्य रश्मिभिश्च वः उत्पुना- त्वित्यर्थः । ३. तै. आ ९. १०.५. ४. पादबन्धेनाऽर्थबन्धेन चोपेता इति. ख. पु. ५. तै. बा. ३. २. १०. १४. ते. ब्रा. ३. २. १०. १४. २. ६. ७.श. ब्रा ४.२.४.११.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८४
एतत् पृष्ठम् परिष्कृतम् अस्ति