सविस्तरायां जैमिनीयन्यायमालायां [ अ. २. पा. १. अधि. १६. युर्यज्ञेन कल्पताम्” “प्राणो यज्ञेन कल्पताम्' इत्यादौ क्लृप्तिसामान्यरूपस्याऽर्थ- स्यैकत्वेऽप्यायुरादिभिर्भिन्नत्वादर्थभेदवाक्यभेदयोः स्पष्टत्वात् , “क्लृप्तीर्वाचयती" " ति क्लृप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः ॥ इति पञ्चदशं वाक्यभेदाधिकरणम् ॥ १५ ॥ - - अथ षोडशमनुषङ्गाधिकरणम् ॥१६॥ षोडशाधिकरणे प्रथमं वर्णकमारचयति- या ते अग्ने रजेत्यध्याहारो यद्वाऽनुषञ्जनम् । तनूरित्यन्यशेषत्वादध्याहारोऽत्र लौकिकः ॥ ३४ ॥ वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम् । अन्यशेषोऽपि बुद्धिस्थो लौकिकस्तु न तादृशः ॥ ३५ ॥ ज्योतिष्टोम (१)उपसद्धोमेप्वेवमाम्नाय ते—(२)“या ते अग्नेऽयाशया तनूर्व- र्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्त्वषं वचो अपावधीत्स्वाहा । या ते अग्ने रजाशया, या ते अग्ने हराशया" इति । अयमर्थ:- -अयसा रजतेन हिरण्येन च निर्मिता अग्नेस्ति- स्रस्तनवः । तास्वाद्या येयमुक्ता तनूः साऽतिशयेन वृद्धा, गह्वरे तीक्ष्णे द्रव्ये लोहेऽव- स्थिता । तया तन्वा क्षुत्पिपासे उपपातकम , वीरहत्यादिमहापातकं च हतवानसीति । तथा च ब्राह्मणम्-“यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेति । अशनायापि- पासे ह वा उग्रं वचः, एनश्च वैरहत्यं च त्वेषं वचः” इति । तत्र स्वाहान्तः प्रथमो मन्त्रः सम्पूर्णवाक्यत्वान्निराकाक्षः । द्वितीयतृतीययोर्मन्त्रयोराकाङ्क्षां पूरयितुमुचितो लौकिको वाक्यशेषोऽध्याहर्तव्यः । न हि तनूर्वर्षिष्टा' इत्यादिभागस्तयोरन्वेतुं योग्यः, तस्य प्रथममन्त्रशेषत्वादिति प्राप्ते-- ब्रूमः--वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया । ततः 'तनू- र्वषिष्टे त्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते । यद्यप्यसावन्यमन्त्रस्य शेषः, तथाऽपि बुद्धिस्थः सन् कल्पनीयादध्याहारात्सन्निकृष्यते । तस्मादनुषङ्गः कर्तव्यः ॥ - १. “औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनृरिति घुवेणोपसदं जुहोती' (आप. श्री. १. ३. १२. )ति सूत्रं द्रष्टव्यम् । तै. सं. १. २. ११; मा. स. ५. ८; 'या ते अग्ने अयाशया तनूर्वषिष्ठा गहनेष्ठेति ( मै. सं. १. २. ५. ) पाठः । ( २.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/८७
एतत् पृष्ठम् परिष्कृतम् अस्ति