पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्कम्भो मण्डलस्येन्दोः साशीति(१) चतुःशती॥१॥ मध्यगत्या हृता स्पष्टगतिघ्ना व्यासकौ स्फुटौ। स्फुटार्कमण्डलकला सोमस्वभगणाहता॥२॥ स्यादाजभागणैर्भक्ता इन्दोः षष्टिस्तदाननम्। भास्वव्यासकलाश्चन्द्रकक्षायां तिथियोजनैः॥३॥ स्फुटार्कभुक्तिर्भूव्यासगुणिता मध्ययोहृता। लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥४॥