पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ष्योतिपसिद्वान्तसंग्रहे २४ नयुत्तैर्ग्रहै: स्पर्शनिमोलनमोचकालिकैर्लम्वनानि कार्यान णि मध्यलम्बनस्य च दिगेकयेऽन्तर भेदे योग: फल- म् । तेन मध्यमास्यत्यन्त रविचन्द्रावेष युतौ खकालिको स्फुटौ भवतः | लम्बनेन होने स्थितिविमर्धेि कार्ये । शेषपरिलेखादि चन्द्रग्रहणवद्भवति चात्र | धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा । इदं ग्रहाण गणितं सर्वकामप्रदं शिवम् ॥ गतिमेकस्य विज्ञाय ग्रहस्य सुसमाहितः । तस्य लोकमवाप्नोति नात्र कार्या विचारणा ॥ सर्वग्रहगतिं ज्ञात्वा ब्रह्मलोकं प्रपद्यते । धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ॥ कामानवाप्नुयात् कामी मेाक्षार्थी परमं पदम् । सम्यग् ग्रहगतिं ज्ञात्वा पात्रतां याति वै द्विजः ॥ न चेति तथा कुर्यात् तया वृत्तिं विवर्जयेत् । पात्राणामपि तत्यानं ग्रहाणां वेत्ति यो गतिम् ॥ वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्व यज्ञाः । तस्मादिदं कालविधानशास्त्रं ये ज्यौतिपं वेद स वेद सर्वम् ॥ इति योषिणाम में पुष्करोपाख्या रामपितामह संवार पितामहसिहान्ताध्यायः समाप्तोऽयं सिद्धान्तः |