पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिषसिदान्त संग्रहे विपरीतमतः कायें स्थित्यधं स्पर्श मौचिकम् ।. मध्यग्रहस्तु मध्याह्ने तदा सस्ते च लम्बने ॥ २१ ॥ स्पर्शमध्यौ यदा पूर्वे तयोरन्तरसंयुतम् । r मध्यस्थितिदलं स्पार्थं मौक्षं तल्लम्बनान्वितम् ॥ २२ ॥ मथार्धे मध्यमोक्षौ वा सयोरन्तरसंयुतम् । मध्य स्थितिदलं मौचं स्पार्थं तल्लम्बनान्वितम् ॥ २३ ॥ एवं मध्ये विमर्घे सर्वग्रामे समागते । तत्स्यियन संयुक्तौ लम्बनेन युतोनितौ ॥ २४ ॥ पर्वान्तफालौ क्रमतो मीलनोन्मीलनाख्यकौ । भवतद्य तथा स्पर्श मोचकालाविति स्फुटौ ॥ २५ ॥ इति श्रीब्रह्मर्पिवृध्वसिष्ठमणी ते गणितस्कन्धे विश्व- भकाशे सूर्यग्रहणाधिकार पञ्चम, । वामदेव उवाच । देवदेव गुरुश्रेष्ठ त्रिकालज्ञ दयानिधे । कथ्यतां परिलेखं च सूर्याचन्द्रमसोर्ग्रहे ॥ १ ॥ कृतः स्पर्श: कुती मोक्षः कुतो मध्ययो भवेत् । मीलनोन्मीलनं तत्र सर्वग्रासे कुतो भवेत् ॥ २ ॥ एतत्व सर्वं तथाऽन्यच कथयख मम प्रभो । वसिष्ठ श्याच | परिलेखमहं वच्ये गाध्यै काग्रमानसः ॥ ३ ॥ ४० •