पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिदान्तः । चन्द्रोदय मयास्तं स्यात् कृष्ण षड्भयुतेन्दुतः ॥ २३ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रचीते गणितस्कन्धे विश्वमकामे शृङ्गोवत्यधिकारी दशमः ॥ १० ॥ वामदेव उवाच | देवदेव मुनिश्रेष्ठ भक्तानुग्रहकारक | भवत्प्रसादात् सुज्ञातं ज्योतिषां चरितं महत् ॥ १ ॥ द्विधा कालं तु तन्मानं भग्रहाणां परिभ्रमम् । यहाणामष्टा ऋज्वी दृश्याऽदृश्या विधीः किल ॥ २ ॥ दिग्देगकालावगमो ग्रहणे चन्द्रसूर्ययोः । होगशाइस्य तथा योगो नभोगयोः ॥ ३ ॥ अथातः श्रोतुमिच्छामि व्यतिपातं दयानिधे । कथमादौ तदुत्पत्तिः किं फलं स्नानदानतः ॥ ४ ॥ कोऽत्र भेदोऽथ वा यो वैष्ठतव्यतिपातयोः । कर्मणा केन साध्योऽसौ कथ्यतामखिलं गुरो ॥ ५ ॥ वसिष्ठ स्वाथ | साधु पृष्टं द्विजश्रेष्ठ पातं पुष्यतमाधिकम् | रहस्यं ज्योतिषां दिव्यं शृणुवैकाग्रमानसः ॥ ६ ॥ सूर्याचन्द्रमसोः क्रान्तिसाम्यवोः स्पर्शनाद्भवेत् । प्रवहमेरितस्ताहक कोषोद्भूतो हुताशनः ॥ ७ ॥ तस्मादुत्पद्यते कोऽपि पुमानत्यन्तटुर्मुखः । सलयो दारुणत्रपुर्जोहिताथी भयावहः ॥ ८॥