पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिदान्तः । यस्मिन् काले क्रान्तिसाम्ये रवीन्हों तस्मिन् काले संज्वलज्ज्वालनालें । स्नानं जप्तं प्राणिभिर्दत्तमंत्र तत्तज्ज्ञात्वा सर्वमञ्चय्यमेति ॥ ३३ ॥ इत्येतत् परमं पुष्पं गुह्यमध्यात्मसंज्ञकम् । गोपनीयं प्रयत्नेन तवाग्रे कघितं मया ॥ ३४ ॥ एतच्छिष्याय शुद्धाय कालज्ञाय मनखिने । कृतज्ञाय विनौताय दातव्यं च द्विजोत्तम ॥ ३५ ॥ मूखय दुष्कुलीनाय तथा चानृतवादिने । कुपरीचितशिष्याय दातव्यं न कदाचन ॥ ३६ || इति श्रीब्रह्मर्मिंवृद्धवसिष्ठीते गणितस्कन्धे विश्वप्रकाशे • पाताधिकार ऐकादमः ॥ ११ ॥ → ५९ वामदेवोऽघ तच्छ्रुत्वा हर्षप्रोत्फुल्ललोचन: । नत्वा प्रदक्षिणोकृत्योपविश्य च तद्ग्रतः ॥ १ ॥ कृताञ्जलिविनीतात्मा प्रत्युवाच पुनः स तम् । शान्तात्मानं सुखासीनं वसिष्ठं भक्तवत्सलम् ॥ ५ ॥ वामदेव उवाच । गुरो कृपानिधे नाथ भक्तानुग्रहकारक | त्वत्प्रसादान्मया ज्ञातं ज्योतिषां चरितं महत् ॥ ३ ॥ अधातः श्रोतुमिच्छामि ब्रह्माण्डं तत् कियन्मितम् ।