पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपसिद्धान्तसंग्रहे न्द्रस्य राशित्रयं पदाख्यम् । प्रथमपदे तदेव । द्वितीय- पदे तदूनं षड्भम् । तृतीयप दे षड्भोन केन्द्रम् | चतुर्थ- पदे चक्रादूनं ज्याकेन्द्रम् | लिप्ता राशिलिप्ताष्टभागेन भाज्या: । लक्ष्याङ्कसमा ज्या स्थाप्या | अवशेषमनन्तर- ज्यान्तरेण गुणयेट्रराशिलिप्लाष्टभागेन विभजेल्लवं स्थापितजीवायां दत्त्वेष्टज्यासिद्धिः । कालप्रमाणेभ्यो लिप्ता त्वेन परिकल्पितेभ्यो जीवा कार्या। अभीष्टजीवातो यावन्ति ज्यांन्तराणि शुध्यन्ति तावन्ति शोध्यानि । अवशिष्टं राशिलिप्ताष्टभागहतं ज्यान्तरेण विभजेव तत्संख्याहत राशिलिप्ताष्टभागलिप्तासु क्षिपेत् चाप. भागाः स्यु । शरान्तरैरेवं शरचापभागाः । भागचतुर्वि शतिज्या परमापक्रमज्या | मेपादिस्थो विषुवल्ले खास्थो ग्रहो भवति । कुलीरस्थयोत्तरेण परमापक्रमान्त रस्थो भवति । तुलादिस्यो विषुवल्लेखास्थः । मका. रादिस्यो दक्षिणेन परमापक्रमान्तरेण भवति । ग्रहज्यां परमापक्रमज्यया हतां व्यासार्धेन विभनेल्ल क्रान्तिज्या । तच्चापं क्रान्तिः क्रमसिहा । तत्र ग्रहाणां फर्कटादि दक्षिणायनं मकराद्युत्तरम् । मेवाद्युत्तरगोलः | तुला दिर्दक्षिणगोलः । गोलवशे- नापक्रम दिक् । स्फुटग्रज्यां परमशरत व्यासा ८ 1