सोमसिद्धान्तः । श्रीगणेशाय नमः | बृहस्पतिसुतं शान्तं सुखासीनं प्रियेक्षणम् । अभिवन्द मुनिर्धीमान् शौनकः परिटच्छति ॥ १ ॥ भगवन् सर्वशास्त्रज्ञ सर्वभूतहिते रत । कथं ग्रहस्थितिर्यावल्लग्नकाल विधाः क्रमात् ॥ २ ॥ उपरागच खेटाना योगञ्चारग्रहाः क्रमात् । ग्रहर्च खोदयः पातस्तवापि ग्रहरूपिण. ॥ ३ ॥ यङ्गोन्नतिर्जगत्सृष्टिस्थितिसंहृतयोऽपि च । एतन्मे संशयं छिन्धि भगवन्नौषधीयते ॥ ४ ॥ श्रुत्वा चैतत् त्रिलोकेशश्चन्द्रमाः शौनकोदितम् । प्रत्युवाच महाभाग दूदं वचनमादरात् ॥ ५ ॥ मह त्वं समर्थोऽसि ज्ञातुमेतदशेषत | ट्सु शौनक वक्ष्यामि शास्त्रं मरमदुर्लभम् ॥ ६ ॥ वेदागमखिलं श्रेष्ठं यत्पृष्टोऽहं त्वया मुने । दशगुर्वरः प्राणः पभि प्राणैर्विनाडिका ॥ ७ ॥ तत्पच्या६० नाडिका प्रोक्ता नाडीपट्या दिवानिशम् । तत्त्रिंशतार्चमास. स्यात् सावनोऽदयैस्तथा ॥ ८ ॥ तथैन्दवस्तत्तिथिभि. सङ्क्रान्त्या सौर उच्यते ।
पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति