पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ टी-अथास्वतन्त्रं चेतनत्वादिनैव विभज्यताम् । किं वेतन त्वादिना विभज्य भावाभावतया विभागः बर्तव्य उतायं न कर्तव्य एव । नाद्यः । विशेषाभावात् । अभावस्य अचेतनत्वं एवं सति नोक्तं स्यादिति चेत् तथामति चेतनस्य भावत्वमपि नोक्तं श्यादिति मम् । वेतनः अयेतनश्च । वेतनोऽपि द्विविधः । स्वतन्त्रं अस्वतन्त्रञ्चेति विभाग करणे अतनस्य अस्वातन्त्र्यं लोकं स्यात् । अस्वतन्त्रस्य चेतन्नप्रभेद् रूपत्वात् । तथा अनित्यप्रध्वंसात्यन्ताभावयोः निलयत्वं प्रागभावस्या नित्यत्वं नोक्तं स्यात् । नित्यानित्ययोः भावप्रभेदरूपन्वादित्यर्थः । यथा न्याममिति । 'स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिप्यते ? इत्युक्तप्रकारे णैव द्वैविध्यमस्त्वित्यर्थः । रा-परतन्त्रस्य भावत्वादिःा विभागे विशेषं विवक्षुराक्षिपति ॥ अथेति । अस्वतन्त्रं चेतनोऽवेतलश्चेति द्विविधम् । अचेतनोऽपि भावोऽभावश्चति द्वेधा । इत्यादिरूपेण विभज्यताम्। किं भावत्वादिनेति भावः । विशेषेति । पुरुषार्थोपयोगित्वादिविशेषस्याभावादित्यर्थः । विशेषमाशङ्कय साम्यमाह । अभावस्येति । एवं सतीति । भावत्वा दिना विभागे कृते सतीत्यर्थः । श्री–भावाभावतयोत्तं परतन्त्रविभागमाक्षिपति । अथा स्वतन्त्रमिति । अस्वतन्त्रं द्विविधं चेतनोऽवेतनश्च इत्येवं विभज्यताम् । भावः अभावश्चेति किमर्थ विभज्यत इत्यर्थः । किं चेतनत्वादिनेति । अस्वतन्त्रं द्विविधं वेतनोऽचेतनश्चेति विभागं कृत्वा अनन्तरं अचेतनो द्विविधः भावः अभावश्चेति भावाभावविभागः कर्तव्य उतायं न कर्तव्य इत्यभिप्राय इत्यर्थः । विशेषाभावादिति । अस्वतन्त्रं द्विविधं भाव अभावश्च । भावोऽपि द्विविध । चेतनः अचेतनश्चेति विभागकरणे तथा अस्वतन्त्रै द्विविधं वेतनः अचेतनश्ध अचेतनै द्विविधं भावः अभावश्च इति विभागकरणेच विशेषाभावादित्यर्थः । नन्वस्ति विशेषः । भावाभावभेदेन अस्वतन्त्रं विभज्य भावस्य चेतनाचेतनत्वेन विभागकरणे