पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्वसथानम् घटोऽस्तीति बुद्धेरपि अधिकरणभूतभूतलमात्रविषयत्वस्य वक्तुं शक्य त्वात् । तथा घटो घटवतिभूतले संबध्यते उत तदभाववतीति । नाद्यः । आत्माश्रयप्रसङ्गात् । न द्वितीयः । विरोधात् इत्येवं विकल्पदूषणयोश्च समत्वादिति भावः । भावप्रतिक्षेप इति। भावपदार्थापलाप इत्यर्थः । किञ्च भूतलस्यैवाभावत्वे इह भूतले घटाभाव इति आश्रयाश्रयिभावा नुपपत्तिः । अभावस्य प्रतियोगिसापेक्षत्वानुपपत्तिश्चेत्यादिदूषणगण दुष्टोऽयं पक्षः । ग्रन्थबहुत्वं स्यात् इत्येवोपरम्यत इत्याशयेनाह ॥ इत्यास्तां विस्तर इति । रा-उपलक्षित इति । स्वस्वरूपानुप्रविधैरेव इतरस्मात् व्यावर्तित इत्यर्थः । “ इत्थंभूतलक्षणे तृतीया ' इति भावः । घटादिव्यावृत्यर्थ उत्तरैकेति एकपदम् । एवमप्रेऽपि । घटादेर्वक्ष्यमाणदिशा प्रध्वंस प्रागभावरूपत्वेऽपि उभयावधिमत्वात् । यद्वा अनित्यवस्तुखरूपात्म कान्योन्याभावस्य पूर्वोत्तरावधिमत्वात् तश्यावृत्यथै उत्तरैकेति पूर्वेकेति चैकपदम् । “अनित्यवस्तुनिष्टमेदाः अनित्याः' इति टीकोक्तेः घटादि सामन्यां अनतिव्याप्तये अभावपदम् । एवं प्रध्वंसलक्षणेऽपि विनाश सामयुत्तरकालेन अनतिव्याप्तये अभावपदम् । कुत एतदित्यतः तत्र प्राक्पदसूवितयुक्तिमाह । प्रतियोगीति । नतु प्रागस्तीति इति शब्दो हेत्वर्थः । एतेन मूले तृतीया हेतावित्यपि व्याख्यातं भवति । श्री-सूचितमिति । अन्यथा भावाभावौ द्वौ इत्येवोच्येत इति भावः । विभागेनेति । सहेति शेषः । तथा च विभागोद्देशौ करोतीत्यर्थः । प्राक्त्वेनेत्यादि । प्राक्त्वादिना व्यावर्तकधर्मेणोप लक्षितो व्यावर्तितो अभावः त्रिविध इत्यर्थः । अनेन प्राक्प्रध्वंससदा त्वेनेति तृतीया न हेतौ । किन्तु इत्थंभूतलक्षण इति दर्शितं भवति । वि-उपलक्षित इति । तथाच प्रागभावत्वं, जन्याभावत्वं, सद्भातनाभावत्वञ्च त्रयं विभज्यतावच्छेदकमिति नोक्तदोष इति भावः । वे—उत्तरैकावधिरिति । उत्तरपदस्य केवलार्थकैकपदसमभि व्याहृतस्य पूर्वावधिनिषेधमात्रपरत्वेन उत्तरैकावधिपदस्य पूर्वावधि