पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी—तर्हि घटप्रध्वंसो नाम प्रागभावनिवृत्तेर्निवृत्तिरिति प्रागभावोन्मञ्जनप्रसङ्ग इति चेन्न । घटवत् घटप्रध्वंसस्यापि तद्विरोधि त्वात् । निरवधिकोऽभावः मृदाभावः । सदाभावोऽस्तीतिकृत्वा । श्री-तत्र प्रागभावप्रतियोगिकध्वंसः ध्वंसप्रतियोगिकप्राग भावश्च प्रतियोग्यतिरिक्त एवेति मत्वा शङ्कते ॥ नचैवमिति । तथाच घटप्राशाभावस्य विनाश्यभावत्वात्तस्य परः प्रागभावः । तस्यापि विनाश्यभावत्वेन परः प्रध्वंसः । तस्यापि पुनः सादित्वेन परः प्रागभावः इत्येकः प्रवाहः । तथा घटप्रध्वंसस्यापि प्रागभावप्रतियोग्यभावत्वेन प्रागभावप्रतियोगित्वेल अपरः प्रागभाव इति अपरप्रवाह इति द्वौ प्रवाहौ द्वे परम्परे प्रसज्येते इत्यर्थ । तथा च प्रवाहद्वयेऽपि अनचस्था स्यादितिभावः । कुतो न सप्रज्येत इत्यत आह ।॥प्रतियोगिन एवेति। स्यादेवं घटप्रागभावध्वंसो घटातिरिक्तः स्यात् । नचैवम् । प्रतियोगिनो घटस्यैव प्रागभावध्वंसरूपत्वात् । यथाहुराचार्याः । *प्रतियोग्यापत्तेरेवा भावप्रतिपत्तित्वस्य प्रागभावे दृष्टत्वात्' इति । तथा च घटप्रवाह प्रयुक्ता नानवस्था । तथा घटप्रध्वंसप्रागभावोऽपि न घटातिरिक्तः प्रतियोगिनो घटस्यैव प्रध्वंसप्रागभावत्वेन द्वितीयप्रवाहप्रयुक्तानवस्थापि नास्तीत्यर्थः । प्रागभावनिवृत्तेः निवृत्तिरितीति ॥ घटप्रागभावनिवृत्ति रूपो घटः तन्निवृत्तिरूपो घटध्वंस इत्यर्थः । उन्मञ्जनमिति । नष्टस्य पुनरापत्तिरित्यर्थः । अभावाभावे भाववत् घटप्रागभावध्वंसनिवृत्तौ च घटप्रागभावस्यैवापतिस्यादिति भावः । । घटवदिति । यथा घटसत्ताद्दशायां घटप्रागभावो नास्ति । घटस्य प्रागभावविरोधित्वात् । एवं घटप्रागभावविवृत्तेर्निवृत्तिर्नाम घटध्वंस एव तत्सत्तादशायां न प्रागभावापत्तिः । घटध्वंसस्यापि प्रागभावविरोधित्वादित्यर्थः । रा-कुत एतत् इत्यतः तृतीयार्थमाह । सदाभावोऽस्तीति कृत्वेति । यथासंभवमिति । यदि घटसंसगभावी तदा प्रागभावः ।