पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वस्थानम् टी-एकेबुवते । संसर्गाभावोऽन्योन्याभावश्चेति द्विविध एवाभाव इति । अन्येतु प्राक्प्रध्वंसात्यन्तान्योन्याभावात्मा चतु वैिध इति । तदुभयं निराकर्तुमिष्यत इत्युक्तम् । अन्योन्या नास्तीतिबुद्धेः घटाभावविषयकत्वे नतावदयं घटप्रागभावो ध्वंसोवा प्रतियोगिसमानकालीनत्वादेतस्य । नाप्यत्यन्ताभावः । कदाचित्तत्र घटस्य सत्वात् । संसर्गस्य भूतत्वे ध्वंसः भावित्वे प्रागभावः कदाप्य भावे अत्यन्ताभाव इति न काप्यनुपपत्तिरित्युक्तम् । अत्र कश्चित् घटा त्यन्ताभाव एवायं घटकालेतु असंबन्धान्नभाति । घटात्यन्ताभावस्य भूतलेन सह संबन्धश्च तत्संयोगध्वंस एवेत्याह । ततुच्छम् । संबन्धा न्तरमन्तरेण तदुपाश्लिष्टभावत्वरूपज्ञकुप्तसंबन्धत्यागेन संयोगध्वंसस्य संबन्धत्वकल्पने आवश्यकसंयोगध्वंसादेव एतद्धीविषयत्वोपपत्तेः । अन्यथा घटस्य कपाले अत्यन्ताभाव एव । घटकालेतु अश्रयाश्राय भावध्वंसरूपस्संबन्धस्य वा घटसबन्धप्रागभावरूपध्वसस्यवा अभावात् न प्रतीतिरिति घटात्यन्ताभावः केवलान्वयी स्यादिति । अपरस्तु उत्प त्तिविनाशशीलोऽयं अपर एव तुरीयो घटाभावः प्रतीयत इत्याह । तदपिमंदम्। घटाभावनाशस्य घटस्वरूपतायाः प्रागुक्तत्वेन घटाभावस्य घटसमानकालीनत्वानुपपत्तिः । नाशस्य स्वप्रतियोगिभिन्नकालीनता नियमात् । तदेवं भूतले घटो नास्तीत्यत्र घटतत्संबन्धभानेऽपि नास्ती त्यत्र संसर्गएव निषिध्यते । घटस्यतु तत्काले सत्वेन प्रतियोगित्वा संभवेपि विरोधितासाधम्र्येण मुख्यत एव प्रतियोगिताव्यवहार इति उक्तमेव युक्तम् । उक्तञ्च उदयनेनापि । 'इह भूतले घटो नास्तीत्यत्र संयोग एव निषिध्यते' इति । न च वाच्यं घटवत् तत्संयोगस्या प्यन्यत्र सत्वेनाप्रतियोगित्वमिति । एतद्भतलैतद्धटसंसर्गस्य निषेधकाले कुत्राप्यभावादिति संक्षेपः ॥ रा-॥ द्विविध एवेति । संसगर्गाभावोऽपि प्रागभावादिभेदेन त्रिविध इत्यपि ध्येयम् । अन्यत्रेपि ॥ तत्त्वविवेकादौ “भावाभाव