पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व भावोहि भेदएव सच स्वरूपमेवेत्यन्यत्रोपपादितम् । कार्यकारणयोः संसर्गस्यान्यत्रनिराकृतत्वेन प्रागभावप्रध्वंसाभावयोः संसगभावत्वा नुपपत्तेश्चेति । स्वरूपत्वान्नान्योन्याभावता पृथक्' इत्यादिनेति भावः । प्रागभावादेस्सं सर्गाभावत्वं वदतां मतं निराह । कायेति । तन्तुपटयोः संसर्गप्रति योगिकः प्राचीनः प्रागभावः उदीचीनः प्रध्वंसः उभावपि तन्त्वादिसम वायिकारणनिष्टतया प्रतियोगिना समानदेशौ भिन्नकालीनावितिमतम युक्तम् । उपादानोपादेययोरभेदप्रतिपादनेन संसर्गस्यान्यत्र तत्वविवे कादौ निरस्तत्वेनेत्यर्थः । श्री–द्विविध एवेति । एतन्मते संसर्गाभावत्वादिकं तु संसर्गाभावविभाजकोपाधिरितिद्रष्टव्यम् । चतुर्विध इति । एतन्मते प्रागभावत्वादिकमभावविभाजकोपाधिरेव न संसगभावविभाजकोपा धिरितिज्ञातव्यम्। ‘भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्’ इत्युक्त त्वेन पक्षद्वयेप्यन्योन्याभावस्य भावप्रभेदरूपत्वादित्याह । अन्योन्या भावोहीति ।अन्यत्रेति। तत्त्वनिर्णयादावित्यर्थः । मतद्वयेऽपि प्राग भावप्रध्वंसाभावयोरपि संसर्गाभावत्वं नास्तीत्याह । कार्यकारणयो वें-तदुभयमिति । मतद्वयेऽपि अभावचतुष्टयसाम्येऽपि वैशेषिकपरिभाषितं साक्षादभावविभाजकोपाधिद्वित्वं अक्षपादपक्षलक्षी कृतं तादृशोपधिचतुष्टमभिप्रेत्योभयमित्युक्तमिति ज्ञेयम् । कार्येति ॥ सति ह्यपादानोपादेययोः संसर्गे तत्संसर्गप्रतियोगिकत्वात् संसर्गाव च्छिन्नप्रतियोगिकत्वाद्वा प्रागभावप्रध्वंसयोः संसगांभावत्वं स्यात् , स एव नास्तीति भावः । प्रामाणिकसंसर्गप्रतियोगिकस्याभावस्य नात्यन्ता भावत्वमित्युक्तम् । अत्यन्तासत्प्रतियोगिकस्यत्वत्यन्ताभावस्य न संसर्ग प्रतियोगिकत्वमिति, उभयथापि नात्यन्ताभावस्य संसर्गाभावत्वमिति वा उक्तार्थतात्पर्यम्