पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् टी—यथोद्देशं चेतनविभागमाह । दुःखस्पृष्ट तदस्पृष्टमिति द्वेधैव चेतनम् ॥ कदाचिदुःखसंबद्धमेव दुःखस्पृष्टम् । कदापि दुःखासंबद्धं तदस्पृष्टम् । कल्पितत्वादुःखादीनां न किञ्चिदुःखस्पृष्टमित्येके । ईश्वरातिरिक्त दित्युक्तत्वान्न मृदादिजडस्यैव वक्तृत्वादिना चेतनत्वं कल्प्यमिति निरस्तमित्यर्थः । अभ्यर्हितत्वादिति । नित्यानित्यविभागेनेति वक्ष्य [णविभागस्याचेतनविषयत्वाचेतनस्योक्तदिशा प्राधान्याद्वा मोक्षोप योगित्वाद्वा अभ्यर्हितत्वमिति भावः । श्री-चेतनस्य पूर्वमुद्देशे निमित्तमाह । सर्वेमचेतनमिति । धनधान्यघटादिकमित्यर्थः । चेतनार्थमिति । चेतनोद्देश्यकमित्यर्थः। । मृदब्रवीदित्यादीति । “मृदब्रवीत् आपो अबुवन् ओषधयः संव दन्त' इत्यादिवचनादित्यर्थः । सर्वमिति । मृन्नवक्त्री-जडत्वात् इत्यनुमानविरुद्धत्वेन अचेतने मृदादौ वचवनाक्रयायागात् तदन्यथानुप पत्या मृदादिकं सर्वे चेतनमित्यर्थः । तचेति । 'अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्' इत्यधिकरणे मृदादिशब्दानां तदभिमानिदेवतावा चित्वसमर्थनेन तन्मतं निरस्तमित्यर्थ । ननु नित्यानित्यादिभेदेन अचेतनविभागमाद्भावकृत्वा चेतनविभाग एवादौ कस्मादुत्तरग्रन्थे क्रियत इत्यत आह । चेतनादीति । चेतनविभागस्य आदिपदेन चेतनप्रभे ददुःखस्पृष्टादिविभागस्येत्यर्थः । नित्यादीत्यादिपदेन अनित्यादि ग्रहणम् । तथा च नित्यं अनित्यं नित्यानित्यं एवमचेतनविभागादि त्यर्थः । । अभ्यर्हितत्वादिति । सर्वमचेतनं चेतनोद्देश्यकमिति चेत नस्य प्राधान्यादित्यर्थः । उदाहृत इति । दुःखस्पृष्टमित्याद्युत्तरग्रन्थे नेतिशेषः । का-कदाचिदिति । सर्वदा दुःखसंबन्धत्वविवक्षायामसंभव स्यादतः कदाचिदित्युक्तम् । दुःखस्यान्तःकरणधर्मत्वात्संबन्धपदम् ।