पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वस्थानम् टी-परमेश्वरस्य दुःखास्पृष्टत्वं स्वातन्त्र्येणैव सिद्धम् । यद्य प्यनयोः दुःखास्पृष्टं चेतनं प्रधानं तथाप्यभावस्य भावनिरूप्यत्वात् दुःखस्पृष्टस्य प्रथममुद्देशः । तथापि प्राधान्यक्रमस्य मुख्यत्वात्तदनु सारेण द्वे अपि निर्दिशति । नेित्यादुःखा रमान्येतु स्पृष्टदुःखाः समस्तशः ॥३॥ अन्ये चेतनाः । एकेतु व्यष्टिसमष्टिभेदेन जीवान् परिकल्प्य गरुडानन्तविष्वक्सेनादीन्समष्टिजीवानपि नित्यादुःखानाचक्षते । तन्निरासाय समस्तश इत्युक्तम् । अत्रचागमानां प्रामाण्यम् । अत रा—अत्रवेति । श्रीश्रीपतिभ्यामन्ये जीवाः स्पृष्टदुःखा इत्यत्र “अतोऽन्यद्भार्त' 'जीवा एवतु दुःखिनः' इत्याद्यागमानां प्रामाण्यै ध्येयमित्यर्थः । अत एवेत्यस्य विवरणं दुःखास्पृष्ट प्रभेदाभावादिति । सर्वस्य स्पृष्टदुःखत्वादेवेति वार्थः । संख्यायाः विधार्थे धा इत्युक्तधा प्रत्ययस्य दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनमित्यत्रोक्तरिति भावः । । अत एवेति । धा प्रत्यये अवान्तरभेदस्य सूचनादेवेत्यर्थः । योगिनिरूप्यत्वात्। कथं तर्हि संसारसंसर्गात्यन्ताभावानधिकरणत्वमिति तत्वविवेकटीकामन्दारमञ्जरीसंगच्छत इति चेन्न । तत्वविवेके नित्य मुक्तस्यैव प्रथममुद्देशेन तदुपपत्तेः । इह तद्रीत्या व्याख्यानं तु टीकायाः यथाश्रुतदुःखस्पृष्टत्वपरतयैव सङ्गमनीयम् वि—आगमानामिति ॥

  • दुःखासम्पंडनत्वात् मध्यमो वायुरुच्यते ।

दुःखस्य योगतो भोगात् रुद्रवीन्द्रादयोऽधमाः' ॥ इति मूलभूतागमानामित्यर्थः । का-आगमानामिति ।

  • न हवै सशरीरस्य सतःप्रियाप्रिययोरपद्दतिरस्ति ।

निर्दूःखोहि हरिर्नित्यं श्रीश्चान्ये दुःखभागिनः' ॥