पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-चतुर्धा अप्येते प्रत्येकं द्विधा इत्याह । । त च। प्रासान्धतमसः स्मृतिसंस्था इति द्विधा ॥ तेच = चतुर्धा अपि सृतिसंस्थाः = संसारे वर्तमानाः नाधुनापि तमः प्राप्ताः । योग्यतायाः चैतन्यस्वभावत्वेन तमोयोग्यानामयं विभागो नानुपपन्नः । प्रजा ह तिस्रो अत्यायमीयुः' इत्येतरेयभाष्ये । तथा तृतीयस्कन्धे एका दश तात्पर्येच । 'जातातिकृष्णा तद्देहादैत्यरक्षपिशाचकाः' इत्युदाहृत इत्यथ । श्री–मुक्तप्रभेदमिति। मुक्तानां देवष्यििदप्रभेदं प्रकारमित्यर्थ तमोयोग्याः प्रकीर्तिता इति वक्ष्यमाणमूलानुसारेण तमोगा इत्यस्यार्थमाह ॥ तमोयोग्या इति । ननु तमोगा इत्यस्य तमसि स्थिताः प्राप्ततमस इति यावत् इत्येवार्थः कस्मान्नस्यादित्यत आह । नतु प्राप्ततमस इति । कुत इत्यत आह । वक्ष्यमाणेति । दैत्यरक्षः पिशाचका इत्यादिना तमोयोग्यानां विभागस्य वक्ष्यमाणत्वेन तद्विरोधप्रसङ्गादित्यर्थः । सृति संस्थापेक्षया तमोयोग्यानामादावुद्देशे निमित्तमाह । अयोग्यताति शयेति। नित्यसंसार्यपेक्षया अयोग्यताप्रयुक्तदुःखातिशयानुसारेणेत्यर्थः । दैत्यादिषु प्रत्येकं चातुर्विध्यान्वयभ्रमं वारयितुमाह । इति शब्दोऽध्या हार्य इति । तथा च तमोयोग्याः दैत्यरक्षःपिशाचवकाः । मत्यधिमाश्चेति चतुर्धत्युक्त्या दैत्यादीनां प्रत्येकं चतुर्विधत्वभ्रमो निरस्त इति ज्ञातव्यम् ॥ एव शब्द इति । अवधारणेनाश्रद्धेयत्वं निवारितमिति ज्ञातव्यम् । अप्रसिद्धत्वपरिहाराय प्रकीर्तिता इत्युक्तम् । तदभिप्रायमाह । प्रकीर्तिता इति । अत्र तमोयोग्यानामेवं चातुर्विध्ये । रा—ननु योग्यविभागत्वं प्राप्ततमस्कानामयुक्तम् । फलप्राप्तौ योग्यतायाः विनाशादित्यत आह । योग्यताया इति ।