टी-यद्यपि नित्यं नित्यानित्यं अनित्यमिति उद्देशः कार्यः प्राधान्यात् । तथाप्युक्तिलाघवाय क्रयोलङ्कनम् । क्रमेण त्रयं दर्श यिष्यन्नित्यं तावत् दर्शयति । श्री-अवसरप्राप्तमिति। चेतनाचेतनयोर्मध्ये चेतनस्याभ्यर्हित त्वेन तन्निरूपणानन्तरं प्राप्तमित्यर्थः । नन्वेवैसति स्वतन्त्रतत्वस्य विष्णो र्नित्यत्वं नोक्तं स्यात् । तस्यास्वतन्त्रप्रमेद्रूपत्वात् । परतन्त्रतत्वेऽपि चेतनानां नित्यत्वं नोक्तं स्यात् । तस्याचेतनप्रभेदरूपत्वात् । तथा ध्वैसा त्यन्ताभावयोर्नित्यत्वं प्रागभावस्यानित्यत्वमपि नोक्तं स्यात् । तस्य भाव प्रभेदरूपाचेतनप्रभेदरूपत्वादित्यत आह । अत्रापीति । एवमचेतनै नित्यादिभेदेन त्रिविधमेव न पुनरेकविधं नापि चतुर्विधमित्येवार्थोऽ भिमतः न पुनरचेतनमेव नित्यादिविभागवदिति । तथा च पूर्वोक्तानां विष्ण्वादितत्वानां नित्यत्वादिकं न विरुद्धमित्यर्थ । ननु नित्यानित्य विभागेनेत्यादिना विधाद्वयस्यैव लाभात् त्रिधेति कथमुक्तमित्यत आह ॥ नित्यानित्यविभागेनेत्यस्येति । तद्विभागेनेति । नित्यानित्यस्य विभागेन पार्थक्यकरणेन । तथा चव नित्यत्वेनानिल्यत्वेनचेत्यर्थः । तथा च नित्यानित्यञ्च विभागश्च नित्यानित्यविभागमिति द्वैकवद्भावमि त्युक्तं भवति । मन्यमानाः बौद्धाः । अपरे साङ्खयाः । सत्कार्यवादिन इति । मृदादौ पृथुबुझेोद्राकारादिना अत्यन्तसदेव घटादिकार्य जायते तर्हि दण्डादिकारकचक्रवैयथ्र्यमिति शङ्कायामभिव्यक्त्यर्थत्वान्नवैयथ्यै मित्यङ्गीकुर्वन्तः साङ्खयाः अनित्यं न स्वीकुर्वन्तीत्यर्थः । लेशत इति । तच्च वेदानां नित्यावेदा इत्येतद्वयाख्यानसमये नित्यादिवस्तुनिर्देशप्रस्तावे दर्शयिष्याम इति भावः । रा–क्रमेति । नित्यानित्यं नित्यं अनित्यञ्चेत्येवं क्रमोलंघन का–केचित्विति॥ चार्वाकाद्य इत्यर्थः । क्षणिकत्वचैकक्षणमात्र वृत्तित्वम् । स्वाधिकरणक्षणोत्तरक्षणावृत्तित्वमिति यावत् । खोत्पत्य व्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वम् । अपरे-सांख्याः सत्कार्य
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति