कृटंखं विदलं व्योम संधिराकाश उच्यते' इत्यभिधानात् । तद्वत् स्थितं कूटस्थम् । तत्सादृश्यं निर्विकारत्वेन विवक्षितम् । तथा च कृटस्थतयेत्यस्य निर्विकारतयेत्यर्थो द्रष्टव्यः । सहितमिति शेष । तथा च कूटस्थत्वेसति आद्यन्तशून्यत्वं लक्षणम् । अन्त्यावयविन्यतिव्याप्ति परिहारायोत्तरभाग । अव्यक्त अतिव्याप्तिवारणाय विशेषणभागः । विकारोऽव्यक्तजन्महि' इति वचनेन तस्य विकारावगमादिति द्रष्ट व्यम् । अन्येतु आद्यन्तशून्यत्वे कृटस्थत्वं हेतुतयैवोपात्तम् । न तु लक्षणान्तगतामत्यप्याडुः । ननु तत्तदुभ्युपाधिकक्रमविशिष्टवर्णानां वेद त्वात् तेषाञ्च जन्मवत्वात् कथं नित्यत्वेन निर्देश इत्यत आह । अत्र वेदा इति । तथा भावादिति । कूटस्थतया आद्यन्तशून्यत्वादित्यर्थः । तथाच जहलुक्षणया पञ्चाशद्वर्णाः अव्याकृताकाशश्च वेदपदेन गृह्यन्त इति भावः । ननु पञ्चाशद्वर्णानामिति कथम् । अकाराद्याः षोडशखराः । कादयोमावसानाः स्पशः पञ्चविंशतिः । यादि क्षान्ता दश इत्येकपञ्चा शद्वर्णाः । अत एवोक्तम् । “एकपञ्चाशद्वर्णानां चतुवैिशतिमूर्तयः' इति धीनः संकल्पाघटितो वर्णधर्मः क्रमोऽस्तीत्यङ्गीकारात् । एवञ्चेश्वर संकल्पाधीनस्य वैदिकवर्णक्रमस्य नित्यत्वात् वेदस्य नित्यत्वं सिद्धम्। इति वदन्ति । एतेन वेदस्य कूटस्थत्वाङ्गीकारे नहि वयमित्यादितत्वनिर्णयटीकाविरोध न चासावभ्युपगमवादः । नित्या वेदा इति प्रमाणोक्तनित्यत्वव्याख्यान प्रसङ्गात् । ‘अखिलैरप्येकप्रकारेणैव पठयन्ते एतदेवानादिनित्यत्वम्’ इति टीकाविरोधाच्च । अत आकाशगुणैःशब्दैव्यैज्यमानवर्णादयः तत्क्रमा त्मकोवेदश्च नित्य एवेति मूले वेदनित्यत्वस्य पृथग्विधत्वात् पृथगुप संहार इति टीकाविरोधाञ्च । ‘नहिवयं वेदस्य कृटस्थनित्यत्वं बूमः’ इति सुधाविरोधाचेत्यादिकमपास्तम्। तत्र साक्षात्कूटस्थत्वस्य निषिद्धत्वात् अत्र पुनः वर्णरूपेण कूटस्थत्वस्याभिप्रेतत्वेन विरोधाभावात् । इत्थञ्च नित्या वेदा इति मूले, तच्च वेदानामिति टीकायां, श्रुतिर्वेद् इति तत्व विवेकटीकायाञ्च वेदग्रहणं संगच्छते' । अचेतनत्रैविध्यञ्चोपपद्यते । अन्यथा वेदस्य नित्यानन्तभवे तच्चातुर्विध्यप्रसङ्गादित्यन्यत्रविस्तरः ।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति