पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वस्यान्नम् ६७ नित्यमेव तदुच्यते नित्यानित्यम् । तस्य तिस्रोविधाःसंभवन्ति । उत्पत्तिमत्वे सति विनाशाभावः । एकदेशे उत्पत्तिविनाशौ एकदेशिन स्तदभावः । स्वरूपेणोत्पत्याद्यभावेऽपि अवस्थागमापायवत्वञ्चेति । तदेतद्विधात्रयमुक्तवस्तुखयेऽस्तीति तस्यैव ग्रहणं कृतम् । वदिति भावः । विनाशाभाव इति । पुराणादिपौरुषेयग्रन्थस्य पुरुषे रुत्पद्यमानक्रमवत्वेऽपि तस्य क्रमस्येश्वरबुद्धेौ वेदक्रमस्येवोत्तरावधि शून्यतया प्रतीयमानत्वेन विनाशाभाव इत्यर्थः । क्षणलवाद्येकदेशैरुत्पत्ति विनाशवत्वेप्येकदेशवतोंऽशिनः कालस्य प्रवाहत आद्यन्तश्शून्यत्वेनो त्पत्तिविनाशयोरभाव इत्यर्थः । जडोपादानप्रकृतेश्च स्वरूपत उत्पत्ति विनाशयोरभावेऽपि महदाद्यात्मकत्वावस्थाविशेषेण तौ स्त इति । तदेत द्विधात्रयमुक्तवस्तुत्रयेऽस्तीत्युक्तम् । तस्यैवेति । वस्तुत्रयस्यैवेत्यर्थः । श्री-वस्तूनिर्देश एवेति। प्रकाराश्रयभूतपुराणादिरुपवस्तु निर्देशएव कृत इत्यर्थः । उक्तदोषपरिजिहीर्षया नित्यानिल्यसामान्यलक्षणं तावदाह ॥ यन्न सर्वथेत्यादिना । केवलं नित्यभिन्नत्वे सति केवला नित्यभिन्नमित्यर्थः । अत्र नित्येऽतिव्याप्तिवारणाय सत्यन्तम् । अनित्येऽ तिव्याप्तिवारणायोत्तरभागः । उभयकेवलपदाभावे असम्भव इति सर्वे सार्थकम् । तस्येति । एतलुक्षणाक्रान्तस्य नित्यानित्यस्येत्यर्थः । विधाः प्रकाराः । विधात्रयं प्रकारत्रयम् ॥ उक्तवस्तुत्रयेऽस्तीति । यन्न सर्वथे त्यादि सामान्यलक्षणाक्रान्ते पुराणादिरूपे वस्तुत्रय इत्यर्थः । तत्राद्यः प्रकारः पुराणे । उत्पत्तिमत्वेऽपि विनाशाभावात् । *पुराणानामपि अन्यथा शब्दरचनमेवानित्यत्वम्’ इत्युक्तः । द्वितीयः प्रकारः काले । क्षणलवाद्येकदेशानामुत्पत्तिमत्वेऽपि एकदेशिनः प्रवाहस्य कालप्रवाह एवैको नित्यो नतु विशेषवान्’ इत्युक्तेः । तृतीयः प्रकारः प्रकृतौ स्पष्टः । वि-विशेषविभज्यतावच्छेदकप्रदर्शनार्थमेव सामान्यविभज्य तावच्छेदकं तावद्दर्शयति यन्न सर्वथेति । सर्वथा उभयान्तरहितभिन्न त्वेसति सर्वथोभयान्तं वा भिन्नत्वमित्यर्थः ।