पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चें—निल्यानित्यं यथा नित्यानित्याभ्यां व्यावर्तते तथा व्याचष्ट यन्न सर्वथेति । अत्र कूटस्थत्वमवधिविधुरत्वम्, अवधिश्च द्विविधः । पूर्वः उत्तरश्चेति । द्विविधोऽपि स्वरूपेण स्वाभिन्नांशेन चेत्यनेकविधः । तथा चव स्वरूपेण स्वाभिन्नांशादेश्च पूर्वोत्तरेणचावधिना विधुरं यत् नित्यतया विवक्षितं तद्वत् यन्न भवति ; स्वरूपेणावधिद्वयोपेतं यदनित्य त्वेन विवक्षितं, तद्वञ्चयन्न भवति; तन्नित्यानित्यमुच्यत इत्यर्थः । का-पौरुषेयग्रन्था इति । स्वतन्त्रवत्कृका इत्यर्थः । अन्यताप्तय नुपजीविताप्तर्यप्रयोज्या इति यावत् । तथाहि । येन पुरुषेण पूर्वतातर्य मनुपजीव्य स्वयमेव ताप्तर्येण यद्वाक्यं प्रयुज्यते तद्र्थकतद्वाक्यं तदीय मित्युच्यते । वेदस्यतु पूर्वताप्तर्यमनुसृत्यैव प्रयोगान्न पौरुषेयत्वमित्यव स—उत्पत्तीत्यादिना।। इयञ्चविधा पुराणादेरर्थत एकप्रकारत्वा च्छब्दतोव्यत्यस्तेश्च संभवति । यथोक्तं “पुराणानि तदर्थानि सर्गेसर्गेऽ न्यथैवतु' इति तत्वनिर्णयवाक्यव्याख्यानावसरे टीकायां “ पौरुषेयत्व निमित्त एवानित्यत्वव्यपदेशो न तु विनाशनिमित्त इत्यर्थः । अत एव त्वनित्यानीतिसंबन्धः' इत्यादिना। नन्वेवञ्चेत्पुराणानां नाशो नास्तीत्या गतमितिचेत् को नेत्याह । यथा वेदस्येशबुद्विगतत्वं निमित्तीकृत्य नित्यत्वमुच्यते तथा पुराणेऽपि सुवचत्वात्। अत एव मुक्तैरपि पठ्यते। श्रूयते हि “ब्रह्मा त्वो वदति जातविद्याम्' इत्यादि । जातविद्यां पुराणम्। त्वः कश्चिब्रह्मा वदतीति तद्र्थः । ननु न पुराणस्योप्ततिरङ्गी काराह। ईश्वरस्य सर्वज्ञत्वेनैष्यत्पुराणस्यापि तद्वद्धिगतत्वादितिचेन्न। ईश्वरेण सदावर्तमानतयानुभूयमानत्वस्यानादित्वप्रयोजकत्वेन तत्करणा त्पूर्वे तेषां वर्तमानतयानुभवाभावात् । किमत्रप्रमाणमितिचेत् पुराण जनिवाक्यान्यथानुपपत्तिरेवेति ब्रूमः । ननूत्पन्नपुराणानां नाशाभावे कल्पान्तरे पुनारचनं कुत इति शङ्का तु *प्रमाणप्रश्मश्चेदुक्तादेव पुराण वाक्यादिति बूमः । प्रयोजनप्रश्नस्त्वयुक्तः । ईश्वरप्रवृत्तेः सर्वत्रप्रयोजन शून्यत्वात् । परप्रयोजनानितु सूक्ष्माण्युत्प्रेक्षितुं नप्रभवाम । भगवा नाचार्योपीदानीं प्रयोजनाभावान्नावादीत्’ इति तत्वनिर्णयटीकातो वार णीया । नन्वेकस्मिन्ब्रह्मकल्पे षट्त्रिंशत्सहस्रदिनानि भवति । एवञ्च तेषु जातानांपुराणानामेकार्थत्वेऽपिपूर्वदिनपुरणेनैव तदंर्थस्यज्ञातत्वादुत्तरेषां