पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-नन्वेवं सत्यवान्तरभेदैर्विधान्तरमप्युत्प्रेक्षितुं शक्य मित्यत एवेत्युक्तम् । तत्रोपपादकाकांक्षायां प्रोक्तमित्याह । शास्त्रीय विधानामत्रैवान्तर्भावोऽन्यासामनादरणीयत्वञ्चेति । अथवा 'पुरा णानि तदर्थानि, सर्वे निमेषा जज्ञिरे, विकारोऽव्यक्तजन्महि' इत्या द्यागमपरिग्रहार्थं प्रोक्तमित्युक्म् । अत एव विरोधोऽपि परिहृतः । रा-अवान्तरभेदैरिति । वर्णात्मना विकारित्वेऽपि क्रमरूपेण तथात्वेनाविकारिविकाररूपैकविधा । अंशैराशुविनाशादिमत्वेप्यंशिन स्तदभावइत्याशुविनाशादितदभावादिरूपांशांशिरूपावा अपरा विधा । कारणात्मना सत्वेऽपि कार्यात्मना असत्वेन सदसत्कारणकार्यरूपा अन्याविधेत्यादिरूपेण नित्यानित्यविधातो विधान्तरमित्यर्थः । पुराणा नामुत्पत्तिमत्वेमानम्। 'पुराणानि तदर्थानि सर्गेसर्गेऽन्यथैवतु । क्रियन्त इति । कालैकदेशोत्पत्तौ मानै सर्व इति । प्रकृतेः स्वरूपतो जन्माद्यभा वेऽपि महदाद्यात्मना विकारो अव्यक्तस्य प्रकृतेर्जन्मेत्यत्र विकार इत्येत न्मानम् । सर्वेऽपि वादिनो विरोधान्नित्यानित्यं न मन्यन्त इति पक्ष निराह । अत एवेति । आगमसिद्धत्वादेवेत्यर्थ श्री—तदुपपादनप्रकारमेव दर्शयति । शास्त्रीयेति । याः विधाः अत्रोत्प्रेक्ष्यन्ते ताः किं शास्त्रीयाः उत तद्भिन्ना एवेति विकल्प्या द्यपक्षस्योत्तरमुक्त शास्त्रीयेति । द्वितीयस्योत्तरमन्यासामिति । तदर्था नीत्यनन्तरम् । “सर्गे सर्गेऽन्यथैवतु । क्रियन्तेऽतस्त्वनित्यानि ' इति वाक्यशेषो द्रष्टव्यः ॥ विकार इति ॥ महदाद्यात्मना परिणाम इत्यर्थः । । आगमेति। पुराणकालप्रकृतीनामनित्यत्वप्रतिपादकागमेत्यर्थः । अत एवेति । आगमबलादेवेत्यर्थः । विरोधोऽपीति । नित्यानित्यत्वयो रेकत्र समावेशाङ्गीकारे विरोध इत्यर्थः । न तदा सत्वादि नाम। प्रकृतिरेवहि सोच्यते । इयञ्चसाम्यावस्थाप्रलयः । उक्तञ्च गीताभाष्ये “अव्यक्तस्याप्यन्यथाभावाख्यो विनाशोऽस्ति” इति। प्रमेयदीपिकायाञ्च “अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापतिः**