पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ इति । प्रकृतेव्यतित्वंतु कार्यकारणात्मना । कार्यावस्थानप्रदेशे कार्य मेव वर्तते । न तु कारणप्रकृतिः । सा तु तदन्यदेश इत्येवं कचित्कार्य कवित्कारणमित्येवं नमन्तव्यम् । किन्तु “कारणेषु स्थितं कार्यं व्याप्त कार्येषुकारण'मिति गीतातात्पर्योदीरितरीत्या बोध्यम् । ननु परिमितस्य महदादिकार्यस्य कथं व्याप्तप्रकृतिगतत्वमितिचेत् । “अधश्चोध्र्वे प्रसृता स्तस्य शाखाः' इत्याद्युक्तः परिमितानामापि महदादीनां ससूक्ष्मांशै स्वकारणकार्यव्याप्तत्वसंभवात् । व्यक्तमेतद्भीताभाष्यप्रमेयदीपिकयो रित्यलम् । अथवेति । “पुराणानितदर्थानि सर्गे सर्गऽमुनैवतु । क्रियन्तेऽतस्त्वनित्यानितदर्थाः पूर्वसर्गवत्' ।। इत्यादिवचनेन पुराणादेरुत्पत्तिमत्वावगमादिति भाव । न चव पुराणादे क्रमविशेषविशिष्टवर्णात्मकत्वात्क्रमस्य बुध्युपाधित्वाद्भद्धेश्चेश्वरीयाया अनादित्वात् कथमनित्यत्वमिति वाच्यम् । एतत्कल्पीयव्यक्तिक्रमस्य पूर्वकल्पेष्वभावेन तदुपपत्तेः । उत्तरकल्पेषु तत्सद्भावस्य प्रमितत्वान्न विनाशित्वप्रसङ्ग इति बोध्यम् । स-ननु भावरूपाशाने उत्पत्तिरहितत्वे सति विनाशित्वरूप विधान्तरस्य सत्वात् वेदावान्तरप्रभेदे उत्पत्तिमत्वेसति विनाशाभावरूप सामान्यधर्मेसति क्रमव्यत्यासाभावरूपविधान्तरसद्भावात्तत्कुतो मूल कृन्नोदाजहार । यदि चव तयोर्न लक्ष्यता तर्हि तत्रातिव्याप्तिःस्यात् । किञ्च “मूलप्रकृतिरविकृति' रित्यादिसांख्याद्युक्तविधान्तरस्याप्यत्रा कथनान्न्यूनतास्यादित्याशंक्य परिहरति । नन्विति । अवान्तरमेदैः पूर्वोक्तभेदकधर्मः । उत्प्रेक्षितुं विना मानं बुध्या कल्पयितुम् । अवि द्यायाः द्वितीये । वेदावान्तरप्रभेदस्य प्रथमेऽन्तर्भाव इत्यत्रैवान्तर्भाव इत्यथः । अत्र कण्ठतोऽनुक्तिस्तु तत्वविवेके पुराणस्येव बोध्या । मैवमिति । एतत् = व्यधिकरणत्वम् । यदीतिवाक्ये “विशिष्ट शुद्धयो'रित्यपि पूरणीयम् । अत्यन्तभेदः तार्किकमत इव । अन्यत्र तत्वविवेके । उपपादितं पुराणादि येनांशेन नित्यं तमंशं नित्य वर्गे निधायेत्यादिनोपपादितमित्यर्थः । यद्वा “तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथै गतः ? इत्यादिनान्यत्र गीतातात्पर्यादावुपपादित मित्यर्थः । तथाहि तन्तुसमूहे पट इति मतिर्जायते । अतोऽमेदः ।