पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेषम् । तेषामतिबहुतरागमविरोधं दर्शयितुं सम्प्रकीर्तितमित्यु क्तम् । आगमाश्वान्यत्र द्रष्टव्याः । विस्तरभिया नेहोदाह्रियन्ते । यदीदं विष्णुव्यतिरिक्तं भावाभावादिभेदभिन्नं जगदखतन्त्रं तर्हि कस्मिन्नायत्तै श्री—एवं सतीति । महदादीनां सूक्ष्मरूपेण नित्यत्वा दुपवितरूपेणानित्यत्वात् नित्यानित्यत्वमेव स्यान्नत्वनित्यप्रमेद्रूपत्व मित्यर्थः । व्यवहारः स्यादिति । तथा च महत्पदाभिधेये न नित्यत्व मिति भावः । तर्हि तत्केन शब्देन वाच्यमिति पृच्छति । किन्त्विति । उत्तरमाह । प्रकृतिरेवेति । संप्रेत्युपसर्गद्वयाभिप्रायं वक्तुमाह । केचिदिति । संप्रेत्युपसर्गद्वयार्थोऽतिबहुतरेति । सं सम्यक् निश्चित प्राबल्यकबहुतरागमैरित्यर्थः । उत्तं विशेषं असंसृष्टत्वादिरूपं दूरेण नाभ्युपगच्छन्तीति संबन्ध । तथा च महदादितत्वस्वरूपस्याभावेन तस्यासंसृष्टत्वादिरूपो विशेषो दूरनिरस्त इति भावः । आगमाश्चेति ॥ “पञ्चभिः पञ्चभिर्बह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विशतिकं गणं प्राधानिकं विदुः ॥ इत्याद्या महदादिस्वरूपप्रतिपादकाश्चागमा भागवतादावुदाहृता द्रष्टव्या इत्यर्थः । विस्तरभयादिति । ग्रन्थविस्तरभयादित्यर्थः । रा—आयत्तमिति । अधीनतया आस्त इत्यर्थः । विषय इति। अायत्तामत्यनुषङ्गः । सृष्टयादेः प्रसिद्धत्वादन्येषामर्थमाह ।॥नियम इति। का-आगमाश्चान्यत्र द्रष्टव्या इति । महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकञ्च पञ्चेन्द्रियगोचवराः ॥ इन्द्रियेभ्यः पराह्यर्थाः अर्थेभ्यश्च परंमनः । मनसस्तु पराबुद्धिबुद्धेरात्मा महान्परः । महतःपरमव्यक्तमव्यक्तात् पुरुषःपरः । पुरुषान्नपरं किञ्चित्साकाष्ठा सा परागतिः ॥ इत्यादयो द्रष्टव्या इति ।