पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ सम्भवन्ति तत्र तावन्तो विष्ण्वधीनाः ज्ञातव्याः । यत्र तु बहवस्तत्र तावन्तः। सर्वथा खरूपस्वभावावस्य तदधीनाविति । तत्र स्थितिनियमौ सर्वस्य । सृष्टिसंहृती नित्यानित्यस्य अनित्यस्य च । अज्ञानं भावरूपं दुःखस्पृष्टस्य । ज्ञानाभावस्तु सर्वस्य । बोधनं चेतनस्य । सुखं प्राप्त तमसो विना । दुःखं दुःखास्पृष्टं विनेत्यादि द्रष्टव्यम् । पदार्थानां सृष्टयाद्यन्यतोऽपि प्रतीयते अत एवेत्युक्म् । सकलसत्तादेस्तदधीन त्वात्तत्तद्वस्तु निमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेवास्येश्वर इति । श्री—नित्यत्वोक्तिविरोध इति । पञ्चाशद्वर्णाव्याकृताकाश योरपि समस्तान्तर्गतत्वे तयोरपि सृष्टिसंहारापत्या नित्या वेदा इति नित्यत्वोक्तिविरोधः स्यादित्यर्थः । पदार्थान् वदन्नेव विग्रहं दर्शयति । ॥ समास इति । उक्तार्थघटनायामिति । समस्तप्रपञ्चविषयक सृष्टयादिरूपोक्तार्थस्य घटनायामित्यर्थः । तत इति । तस्मात्समास व्यासयोगत इत्यर्थ । समासव्यासयोगत इत्युक्तया शङ्कापरिहार इत्यत आह । इदमुक्तं भवतीति । केचित् तत इदमुक्तं भवतीत्येकमेव वाक्यम् । तथा च समासव्यासलक्षणादुपायादिदं समस्तस्योक्तं सृष्टया दिकं भवति । घटते । उपपन्नमित्यर्थ इत्याहुः । समासव्यासप्रकारमेव दर्शयति । उक्तधर्मेष्विति । अज्ञानं भावरूपमिति । भावरूपा विद्येत्यर्थः । नन्वत्राज्ञानं ज्ञानाभावरूपमेव किं न स्यादितिचेवेत् । स- ॥ तदधीनत्वादिति । तदधीनत्वात् विष्ण्वधीनत्वात् । तद्वस्तु ब्रह्मादिरूपम् । निमित्तमात्रम् । नतु खतन्त्रम् । तर्हि ब्रह्मादीनां स्रष्टत्वप्रतिपादकागमानां का गतिरिति चेन्न।

  • ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वारुद्रत्वभक्षयत् ।

पृथक्स्थित्वा जगत्पाति तब्रह्माद्याह्नयोहरिः । ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवेस्थितः । स ब्रह्मणा विस्सृजति स रुद्रेण विलापयति । निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भःशर्वश्च कालाख्यारूपिणस्तवे'त्यादिप्रमाणादिति भावः ।