पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरूणाञ्च नमनरूपमङ्गलं मनसि कृत्वा शिष्यशिक्षायै ग्रन्थादावुप निबध्न् श्रोतृबुध्यनुकूलनाय स्वचिकीर्षितं प्रतिजानीते ॥ लक्ष्मीपतेरिति। रा- एतेन सकलवाङ्मनसदेवताया देव्या अपि भगवदुप सर्जनतया नतिरुत्क्ता भवति । विशिष्टविषयक्रियायाः विशेषणेऽपि दण्डिनमानयेत्यादावन्वयद्दर्शनात् । (विद्यारम्भसमये देवतावन्दनवद्भरु वन्दनस्यापि कर्तव्यत्वादाह । गुरोरपीति ।) गुरोरपि पदाम्भोज युगं नत्वेत्यन्वयः । शिष्यमनःसमाधानायाह । नातिविस्तरमिति । नविद्यतेऽतिविस्तरो यस्मिन् तद्वयाख्यानं करिष्य इत्यन्वयः। प्रथने वाव नत्वेति – प्रधानक्रियामात्रापेक्षया न पूर्वकालत्वं त्वा प्रत्य यार्थः, किन्तु करिष्यमाणापेक्षया तद्विवक्षितम्। एवञ्च लक्ष्मीपतिनते गुरुनत्यपेक्षया पूर्वकालत्वे दशैिते गुरुतमादिक्रमेणैव नतिः कर्तव्ये त्यपि शिक्षितमिति वेदितव्यम् । रो-पदे अम्भोजे इव पदाम्भोजे, तयोर्युगम् । स-ग्रन्थारम्भसमये सकलवाङ्मनसदेवतायाः मङ्गलदेव्याः नमनस्य *मनोवृत्तेस्तत्प्रवणताद्दिवंदनमिति' सुघोदितस्य चित्ता सक्तिरूपस्यावश्यकत्वात्तत्पृथगभिवन्दनस्यातिसुष्टाचारादिसापेक्षस्य विलम्बेन भगवत्प्रसादासादकत्वेनायोगाद्भगवदुपसर्जनतयैव सा चन्द नीयेति बोधयितुं लक्ष्मीपतेरित्युक्तम् । तथैवच वचो गीताभाष्ये द्वादशाध्याये “छेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ताहि गतिर्तुःखं देहवद्भिरवाप्यते” इति श्लोकव्याख्यानावसरे “अव्यक्ता गति दुःखं ह्यवाप्यते । गतिर्मार्गः । अव्यक्तोपासनद्वारको मत्प्राप्तिमागदुःख माप्यत इत्यर्थः । अतिशयोपासन सर्वेन्द्रियातिनियमन सर्वत्रसमबुद्धित्व सर्वभूतहितेरतत्वातिसुष्ट्राचारसम्यग्विष्णुभक्त्यादिसाधनसंदर्भमृते ना व्यक्तापरोक्ष्यम् । तत् ऋते चव न विष्णुप्रसाद् । सत्यपि तस्मिन्न सम्यग्भगवदुपासनमृते । नर्ते च तं मोक्षः । विना अव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति केशिष्ठोऽयं मार्ग' इत्यादि । यदभियुक्तै बहुभिः “शोऽधिकतरस्तेषामित्युदाहृत्य ” “पृथग्रमावन्दनस्य निषिद्धत्वादित्याद्युक्तं तत्तद्सौलभ्यविवक्षयैवेति नैतद्भाष्याननुगुणमिति गुणवद्भिः सन्तोष्टव्यम् ।