पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् टाका मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेनावश्यमव गन्तव्य इति सकलसच्छास्राणामविप्रतिपन्नोऽर्थः । इदश्वावान्त रानेकभेदभिन्नस्य जगतो विज्ञानमपेक्षत इति जगदपि तथाऽव गन्तव्यम् । तदिदं प्रधानाङ्गभूतं तत्त्वद्वयं शात्रे विक्षिप्य प्रति शब्द इति सूत्रे शब्दविषयविस्तृतिविवक्षायां स्तृधातोः घञ् न भवति । ऋदोरबित्यप्रत्यय एव भवतीत्युक्तया शब्दबाहुल्यहीनमर्थबाहुल्योपेत मिति भावः । श्री– लक्ष्मीपतेनारायणस्य सव्यदक्षिणपाद्योः क्रमेणानन्द ज्ञानप्रदत्वात्तदुभयप्रार्थनाय पदाम्भोजयुगमित्युक्तम् । युग द्वयामत्यथः । युगं तु युगलं द्वन्द्वमित्यभिधानात् । यथोक्तं बृहद्भाष्ये । सुवरिति प्रतिष्ठा द्वे प्रतिष्ठ द्वे एते अक्षर इत्यत्र स्वित्यानन्दः समुद्दिष्टो वरितिज्ञानमुच्यते । मोक्षदानेन तज्ज्ञानात्सुवरस्य पदद्वयम् ॥ दक्षिणश्चैव सव्यश्चेति ॥ गुरोरित्येकवचनं समुदायापेक्षम् । गुरूणामित्यर्थः । आदिगुरव श्रीमदानन्दतीर्थाचार्याः । परमगुरवः पद्मनाभतीथः । साक्षाद्भरवः अक्षोभ्यतीर्थाश्च गुरुशब्देन संगृहीता इति ज्ञातव्यम् । अपि शब्दः समुच्चयार्थः । पदाम्भोजयुगं , नत्वेत्यस्यानुकर्षणार्थश्च । नत्वेति वक्त्वा प्रत्ययेन नमस्कारस्य ग्रन्थकरणात्पूर्वभावकथनेन तयोरङ्गाङ्गिभावः सूचितो ज्ञातव्यः । नन्वस्यग्रन्थस्य शब्दबाहुल्योपेतत्वेन विद्वदुपादित्सा गोचरत्वं न स्यादित्याशङ्कपरिहारायोक्तम् । नातिविस्तरमिति । अत्यन्तविस्तरो यथा न भवति तथेत्यर्थः । प्रथने वावशब्द इति सूत्रात् सचशब्दस्य विस्तर इत्यभिधानाञ्च शब्दमात्रयैवात्र प्रपञ्चो निषिध्यते नार्थस्येति विस्तरशब्दं प्रयुञ्जानस्याभिप्रायो द्रष्टव्यः ।