पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादितं शिष्यतितया सङ्गह्य भगवानाचार्यः । प्रतिपादयितुं प्रकरणमिदमारभते रा- ननु स्वव्याख्येयतत्वसङ्खयानस्य फलाभावात्प्रक्षावदनु पादेयत्वमिति शङ्कावारणाय प्रयोजनमाह । मुमुक्षुणेति । ब्रह्मज्ञाना देव मुक्तिसिद्धया जगत्तत्वोक्तिव्र्यथ । शाखे तत्त्वानामुक्तत्वाचैतद्भा रम्भो व्यर्थ इत्यत आह । मुमुक्षुणेति । जगदुदयादिनिमित्तत्वेनेति । चेतनाचेतनात्मकविश्वोत्पतिस्थितिलयादिकर्तृत्वेनेत्यर्थ । नान्यः पन्था अयनाय विद्यत इत्यादिना मुत्केरुपायान्तरस्य निषेधादवश्यमित्युक्तम्। तमेवं विद्वानमृतइत्यादौ एवं तस्माद्विराळजायतेत्यादिनोक्तजगजन्मादि कर्तृत्वादिप्रकारेण विद्वानेवामृतः । सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान् । मोक्षञ्च विष्णुतश्चैव ज्ञात्वा मुक्तिर्नचान्यथा ॥ (ता. नि.) इत्यादि वचनप्रसिद्धिद्योतनाय अवगन्तव्यः खल्वित्युक्तम् ॥ ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणचैव शास्त्रमित्यभिधीयते ॥ स्कान्दे ॥ इत्युक्तक्रळगादिशास्त्राणामुक्तरूपपरमात्मझानद्वारा प्राणिनां मुक्तयर्थे प्रवृत्तत्वस्य तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्यादौ श्रवणाद् विप्रतिपन्नोऽर्थ इत्युक्तम् । अस्त्वेवं ततः किमित्यत आह । इदञ्चेति । उत्क्तरूपेण परमात्मज्ञानञ्चेत्यर्थः । परमात्मना क्रियमाणा जगतो जन्मादयो व्यापारा बहवः । तत्र चेतनेषु योग्यानां ज्ञानभक्त्यादिदानम् । वि-मुमुक्षुणेत्युपलक्षणम् । शमादिमतेल्यपि बोध्यम् । जगत्प्रत्युपादानत्वमसम्भवात्परमात्मनोऽनभिमतमिति सूचयितुं निमित्तत्वेनेत्युक्तम् । अवान्तरेति । अशेषजगद्वृत्तिधर्मव्याप्यानेकवैधम्र्यरूपमेदवत इत्यर्थः । एवञ्च जगतो विज्ञानान्वये भेदस्य विशेषणत्वेन वैधम्र्यप्रकारक