पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् तावत्तदफलमेव । प्रेक्षावद्भिरनुष्ठितत्वात् । नापि प्रारिप्सितपरि समाप्त्यादिव्यतिरिक्तफलम् । नियमेन प्रारम्भे (अनुष्ठितत्वात्) तदनुष्ठानात् । उच्यते । अनुष्ठितमेव भगवता मङ्गलम् । मानसा देरपि तस्य सम्भवात् । तच परमास्तिकत्वादनुमीयते । यचायं स्वातन्त्र्यादिविशिष्टस्य विष्णोरादित एव सङ्कीर्तनं करोति किं ततोऽन्यन्मङ्गलं नाम । अन्यपरमपि तद्भक्त्यानुष्ठितं स्वभावा त्सम्पादयत्येवाखिलमङ्गलानीति । तत्र तावत्तत्त्वं सामान्यतो विभागे नोद्दिशति । ॥ स्वतन्त्रमखतन्त्रञ्च द्विविध तत्त्वमिष्यते ॥ शङ्कयापरतत्त्वस्याप्यवान्तरानेकभेदभिन्नस्य मोक्षजनकपरतत्त्वज्ञानोप योगिज्ञानविषयतयावश्यं ज्ञातव्यत्वात्तत्सङ्कयानमत्र सार्थकमेवेत्याह ॥ मुमुक्षुणेत्यादिना । खलुशब्दो वाक्यालङ्कारे ॥ अविप्रतिपन्नोऽर्थ इति । सम्मतोऽर्थ इत्यर्थ । इदश्चेति । जगदुदयादिनिमित्तत्वेन परमात्मज्ञानमित्यर्थ । अतोऽर्थशब्दस्य पुलुिङ्गत्वात्कथमिदमित्यनेन परामर्श इति चोद्यानवकाशः । भेदभिन्नस्येत्यत्र भेदशब्दो विशेष परः । तथा चावान्तरानेकविशेषभिन्नस्य अवान्तरानेकप्रभेदवत इत्यर्थः । । विज्ञानमपेक्षत इति । जगत एवाज्ञाने तदुद्यादिनिमित्तकारणत्वेन परमात्मनो ज्ञातुमशक्यत्वादिति भावः । तथावगन्तव्यमिति । अवान्तरानेकभेदभिन्नत्वेन ज्ञातव्यमित्यर्थः । तथाशब्द उपमायाम् । यथा परमात्मा अवश्यमवगन्तव्यस्तथा जगदपि ज्ञातव्यमित्यर्थः । ननु तत्वप्रतिपादनस्य शास्त्र एव कृतत्वाद्वयर्थमेतत्प्रकरणमित्यत आह । ॥ तदिदमिति । प्रधानाङ्गभूतमिति । प्रधानभूतं अङ्गभूतचेत्यर्थः। । विक्षिप्येति । क्रमेण एकत्र संग्रहमकृत्वेत्यर्थः ।। सङ्गृह्येति । क्रमेणैकत्र संगृहोत्यर्थ ः । तथा चव संकलय्य तत्वनिरूपणं प्रकरणा वान्तरप्रयोजनमिति न तद्वयर्थमिति भावः ।