पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्त्वसङ्खयानम् रा– नैष्फल्यादिनाऽननुष्ठानमितिभ्रान्ति शङ्काव्याजेन निरस्य न्यूनतादोपं परिहरति । नन्वित्यादिना । प्रकरणस्यादावित्यर्थः । प्रेक्षा वद्भिः व्यासजैमिनिप्रभृतिभिः अथातो ब्रह्मजिज्ञासेल्यादाविति भावः । ॥ परिसमाप्त्यादीति । प्रचय आदिशब्दार्थः । (मङ्गलमनुष्ठितमेवे त्येतदयुक्तम् । प्रकरणादौ मङ्गलानुष्ठानस्य ग्रन्थे निवेशनाभावादि त्यत आह) । मानसादेरिति । हरिस्मृतिलमउक्तिदण्डवत्प्रणामादे रित्यर्थः । परबुद्धेरप्रत्यक्षत्वादाह । तचेति । मानसाद्यनुष्ठान मित्यर्थः । (किञ्च मङ्गलानुष्ठानसाधकै ग्रन्थे निवेशनमप्यस्तीत्याह ।) । यचेति । किञ्चेति चार्थः । यत्करोतीत्यन्वयः । आदिपदेन भगव त्वग्रहः । एतेन शिष्यशिक्षार्थे निबन्धनस्याप्यावश्यकत्वान्न्यूनतेल्य पास्तम् । ननु विभागेनोद्दिश्य विशिष्यनिर्देशपरमिदं कथं मङ्गलार्थे स्यादित्यत आह । अन्यपरमपीति । तत्रेति । मुमुक्षुणाङ्गाङ्गिभावेन ज्ञातव्यतया तत्त्वद्वये अवश्यं वाच्ये सतीति वा शास्त्रविषयादिना विषयादिमत्वे सिद्धे सतीति वा समङ्गलत्वेन प्रकरणस्यारम्भणीयत्वे सिद्धे सतीति वा सामान्यविशेषविभागोद्देशादिषु मध्ये इति वार्थः । विशेषविभागादिः पश्चादिति तावच्छब्दः । तत्त्वं द्विविधमिति सामा न्यतो विभागः । स्वतन्त्रमस्वतन्त्रञ्चेति सामान्यत उद्देश इति विवेकः । विभागेनेति हेतौ तृतीया । वि—निबद्धस्यैव नमस्कारादेर्मङ्गलत्वं मन्वानः शङ्कते ॥ नन्विति । निबद्धस्यैव मङ्गलत्वं नेत्यभिप्रेत्य परिहरति ॥ उच्यत इति ॥ निबद्धस्यैव मङ्गलत्वमभिप्रेत्याह । यञ्चायमिति ॥ स्वभावात्-सामथ्र्यात् । रो-किञ्च किमिदं ग्रन्थनिवेशनै नाम, किं मङ्गलत्ववाचकशब्द प्रयोगः ? ग्रन्थादौ मङ्गलात्मकशब्दनिवेशोवा ? नाद्य —मायावादखण्ड नादौ स्तौमीत्येवमनुक्तावपि नृसिंहस्तुत्यात्मकमङ्गलानुष्ठानस्य झात त्वात् । द्वितीयेतु-प्रकृतेप्यस्तीत्याह ॥ यञ्चायमिति ॥