पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री– मङ्गलै-नानुष्टयं-निष्फलत्वात्-इति वा-समाप्त्यादीतर फलकत्वाद्वा-इति विकल्प्याद्यमनूद्य दूषयति । नतावत्तदिति ।। । प्रेक्षावद्भिरिति । तथा च मङ्गलं-सफलं-प्रेक्षावद्भिरनुष्ठितत्वात् कृष्यादिवत्-इति अनुमानादित्यर्थः । अत्र कदाचित्केनचित्प्रेक्षावता ननु युज्यते नृसिंहस्तुत्यात्मकशब्दनिवेशस्य मङ्गलानुष्ठा नत्वादिकं, स्तुतिरूपमङ्गलत्वेनैव तन्निवेशात्, स्वातन्त्र्यादिसङ्कीर्तनस्य तु पदार्थान्वयप्रतीत्यर्थे कृतस्य कथं मङ्गलत्वमित्यत आह--अन्यपर मपीति ॥ सूत्रादौ अथशब्दादिकमिवेत्यर्थः । स-किमपि—कायिकवाचिकमानसिकान्यतममपि । (ननु प्रकरणादौ मङ्गलाचरणमितिपाठमाश्रित्य आचरण शब्दार्थः कथितः) आचर्यते ज्ञाप्यतेऽनेनेत्याचरणम् । प्रेक्षावद्भिरिति । प्रेक्षा येष्वस्ति ते तथा । तैज्ञानिभिः । अखिलमङ्गलानि । प्रयोजनप्रापकत्वेन मङ्गलानामखिलता । खिलानि-अफलपर्यवसायित्वात् अदृढान्युच्यन्ते तथाविधानि न भवन्तीत्यखिलानि । फलपर्यवसायीनीतियावत् । बहुवचनेन विानां बाहुविध्यात् तत्समसंख्यत्वेन तदुत्पाटनपाटवं प्रकटीचकारेति ज्ञेयम् । सम्पादयति ॥ सम्यगुपार्जयति । अन्यार्थे नीयमानस्याप्यम्भ कुम्भादेरन्येषां मङ्गलसूचकत्वदर्शनादिति भावः । वृद्धिरादैच्, अथातो ब्रह्मजिज्ञासा, अथातो धर्मजिज्ञासा, अथ शब्दानुशासनं, सिद्धे शब्दार्थ सम्बन्धः' इत्येवमादिबहुस्थलेषु संज्ञानन्तर्याद्यभिधायकानामपि वृध्या दिशब्दानां मङ्गलार्थताया अपि चिरन्तनव्याख्यातृभिः व्याख्यातत्वान्नेयै व्याख्या अदृष्टचरीति कौतुकिभिभव्यमिति इति शब्देन शङ्कापरिहार समाप्तिसूचकेन सूचयामासेति ध्येयम् । का-मानसादेरपीति । स्यादेवम् । यदि नमस्कारादिनिबन्धन मेव मङ्गलं स्यात् । नत्वेवम् । भगवदुत्कर्षविषयीकारिज्ञानकर्म शब्दात्मकतया तस्य त्रैविध्यात् । प्रकृते चास्मदादिप्रत्यक्षायोग्यज्ञानादि रूपमङ्गलत्वान्नोक्तदोष इति भावः । अत्र. मानसस्यैव मुख्यत्वात् मुखतो