पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्यामतादशायां रक्तत्वस्यात्यन्तासत्वान्न प्रमेयत्वमिति भावः । यद्वा श्यामतादशायां रक्तःकुम्भ इति ज्ञानस्यापि धम्र्यशे प्रमात्वात्तदंशे प्रमा विषयत्वमस्तीत्यतिव्याप्तिरेवेतिचेत्तत्राह । धर्मिण इति । अत्राकार प्रश्छेषो न कार्यः । तथाभावात् । तत्वरूपतासद्भावादित्यर्थः । तथा च लक्ष्यत्वान्न तत्रातिव्याप्तिरिति भावः । अत एव कचिद्धर्मिणस्तत्व भावाङ्गीकारादित्यपि पाठः । वि-अभ्युपगच्छतां नैयायिकानामिति शेषः । नन्वत्यन्तासद्रजतं न प्रतीयेत ; तत्सामग्रीविरहादिति चेन्न । विशेषादर्शनभेदाग्रहशुक्तीन्द्रियसन्निकर्षादिरूपायाः दोषघटि तायाः सामन्याः सत्वात् । न च रजतसाक्षात्कारत्वेन रजतेन्द्रिय संयोगत्वेन कार्यकारणभावावधारणात्प्रकृते च रजतसंयोगाभावात्कथं रजतसाक्षात्कारस्यादिति वाच्यम्। रजतजन्य एव साक्षात्कारे रज तेन्द्रियसंयोगस्य कारणत्वात् । प्रकृते च तदभावात् । अन्यथा अन्यथा ख्यातिवादेप्यगतेः । तन्यथाख्यातिरेवास्तु, विशेषादिति चेन्न। उक्तविशेषसामग्रीबलेन प्रमाणसिद्धरजतविलक्षणरजतस्यैव भ्रमविषय तया आवश्यकत्वेनान्यथाख्यातिवादस्य विशेषात् । अत एव “एतावन्तं कालं शुक्तिरेवात्यन्तासद्रजतात्मना प्रत्यभात्' इत्युत्तरकालपरामशोऽ प्युपपद्यते तथात्वाभावात् ॥ तत्रावच्छेदेन सर्वाशप्रमाविषयत्वाभावात् । काशी—ननु असतः कथं प्रतीतिः सन्निकर्षाभावात् । न च कथमन्यत्र सतोऽपि प्रतीतिः संयोगादिसन्निकर्षाभावादिति वाच्यम् । झानलक्षणसन्निकर्षस्वीकारात् । असतश्च पूर्वमनुपस्थितत्वेन तदयोगा दित्याशङ्कयोक्त दोषवशादिति । अयं भावः । अपूर्वसन्निकर्षकल्पना पेक्षया रजतसादृश्यादिदोषसहकृतशुक्तिसन्निकर्षस्यैव रजतावभास कत्वं युक्तम् । नचासतस्तदज्ञानजनकसन्निकर्षाश्रयत्वलक्षणविषयत्वा योगः तदभावेऽपि उलेख्यत्वरूपविषयत्वोपपत्तेरिति । एवञ्च प्रशब्दा भावे भ्रमविषयविशिष्टेऽप्यतिव्याप्तिबध्या । सिद्धान्ते विशिष्टस्या प्यतिरिक्तत्वात् । अत एव तत्त्वविवेकटीकायामुल्लिखितम् । 'विशिष्ट मतत्वमेवेति' इत्युक्तमितिदिक् ॥