पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टीका तद्विविधम् । खतन्त्रमस्वतन्त्रश्वेतीति शब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रमूस्वतन्त्रञ्च तत्त्वं प्रत्येकं द्विविधमिति प्रतीतिःस्यात् । स्वरूपप्रमितप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्ष स्वतन्त्रम् । परापेक्षमस्वतन्त्रम् । तदुपपादनायोक्तमिष्यत इति । प्रामाणिकैरिति शेषः । तथाहि यदि तत्त्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । (सा भ्रान्तिरिति चेन्न ) भ्रान्तिः सा इति वेन्न । बाधकाभावात् । न च निरधिष्ठाना भ्रान्तिरस्ति । नापि निरवधिको वाधः । नास्त्येव तत्त्वमित्यस्यार्थस्य प्रमितत्वाप्रमितत्वयोव्याघातश्च । यदि चैकमेवतत्वं तदा भेदोपलम्भविरोधः । तद्भ्रान्तितायाश्च बाधकं वाच्यम् । तचान्यत्रनिरस्तम् । रा-केचित्स्वरूपमेव धर्मिणः सत्तामाहुः । अन्ये प्रमितिम् । अपरे प्रवृत्तिम् । अतो मतत्रयानुरोधेनाह ।स्वरूपेत्यादि । तदुप पादनायेति । स्वातन्त्र्यपारतन्त्र्यभेन तत्वद्वैविध्योपपादनायेत्यर्थः । । सा भ्रान्तिरिति । विधेयापेक्षया स्त्रीलिङ्गोक्तिः । घटःसन् पटःसन् इत्यादिप्रत्यक्षादिरित्यर्थः । भ्रान्तिबाधावङ्गीकुर्वाणेनापि आरोपाधिष्ठान त्वेन इदं एवैनेति बाधावधित्वेन वा शुक्तिरजतादौ इदं रजतं नेदं रजतं इत्यादाविव किञ्चित्तत्वमभ्युपेयम् । अन्यथा तावुभौ नस्यातामिति भावेनाह । न चेति । इत्यस्यार्थस्येति । तत्त्वाभावरूपार्थस्य प्रमितत्वे स एव तत्त्वमिति तत्वाभावोक्तिव्यहता । अप्रमितत्वे भावरूपतत्त्वमेव नास्तीति तत्त्वाभावोक्तिव्यहतेत्यर्थः। नन्वस्तु नाम तत्त्वं तचब्रह्मरूपं शून्यरूपं वा खरसभंगुरं विज्ञानरूपं वा एकमेव न द्विविधमित्यत आह ॥ यदिचेति । भेदोपलम्भेति । नाहं चैत्रः अपितु मैत्र इत्यादिरूपेण जीवानां अन्योन्यं जडाञ्च जडानां अन्योन्यञ्च भेदोपलम्भविरोध इत्यर्थः ॥ तचान्यत्रेति । दृश्यत्वाद्यनुमानादिरूपबाधकम् । 'वैधम्र्याच्च न स्वमादिवत्' (२-२-२९) इत्यादि सूत्रभाष्यादौ तत्त्वनिर्णयादिप्रकरणेषु च निरस्तमित्यर्थ ।