पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ । यदितत्वमेवेति । प्रत्यक्षादीति । घटपटपरात्मेश्वरधर्मादितत्त्वानां अस्तितायाः प्रत्यक्षचेष्टाद्यनुमानागमसिद्धत्वेन तद्नङ्गीकारे तद्विरोधः स्यादित्यर्थः । सेतीति । सन् घट इत्यादि (घटादि) तत्त्वास्तिाव गाहिनी प्रत्यक्षादिप्रतीतिरित्यर्थः । अस्तु वा अयं घट इत्यादिप्रतीति भ्रान्तिः तथापि तद्न्यथानुपपत्यैव तत्त्वसिद्धिरित्याह । न च निरधि ष्ठाना भ्रान्तिरिति । सर्वस्या अपि प्रतीतेभ्रान्तित्वमभ्युपगच्छतापि भ्रान्तेः किञ्चिदधिष्ठानमङ्गीकार्यम्। नहत्थमेव क्वचिद्भमः । किन्तु इद मित्थमिति । तथा च यदेवतदधिष्ठानं तदेकं तत्त्वमङ्गीकार्यमिति भावः । ननु मास्तु भ्रान्तेनैिरधिष्ठानत्वं भ्रमे यावत्प्रतीयते तावत्सर्वमपि अस देवेति स्वीकारादतो नेदं दृषणमित्यत आह । नापि निरवधिकोबाध इति । अवधिः आश्रयः भ्रमप्रतीतिनिषेधस्य तावत्पर्यन्तत्वात् । सर्वप्रतीतेभ्रान्तित्वं बाधैकगम्यम् । बाधश्च इदमित्थं न भवतीति वा अत्रेदं नास्तीति वा किञ्चिदवधिको द्रष्टव्य । इत्थं न भवति इदं नास्तीत्येव बा(धकाभा)धाभावात् । बाधेन चव यदवधित्वेन विषयी क्रियते तदेव तत्त्वमङ्गीकार्यम् । तस्यापि भ्रान्तिसिद्धत्वे तत्रापि बाधो वाच्यः । सोऽपि सावधिक इत्यनवस्थेत्यर्थ । अन्ये तु घटादिप्रतीति भ्रमत्वस्य बाधैकगम्यतया बाधो वाच्यः । ततश्च तद्विषयस्यैव तत्त्वता स्यात् । न च बाधोऽपि भ्रम एव । तस्यापि बाधे तद्विषयस्य तत्व तापत्या तस्यापि भ्रम(त्वेन)त्वे अनवस्थाप्रसङ्गात्। इष्टापत्तिरितिचेत्तत्राह । नापि निरवधिकोबाध इति । निरवधिको निरवसानः । अप्रामाणिक त्वात् । प्रामाणिकत्वे चव तदेवतत्वं स्यादिति भाव इत्याहुः ॥ तत्वमेव नास्तीत्यङ्गीकारे दूषणान्तरमाह ।॥नास्त्येवेति । तत्त्वं नास्तीत्यस्यार्थस्य प्रमितत्वे तत्वाभावरूपार्थस्यैव तत्त्वतापत्या तत्त्वं नास्तीत्यनेन व्याघातः । तत्त्वं नास्तीत्यस्यार्थस्य अप्रमितत्वे तत्वास्तित्वस्यैव प्राप्त्या तत्त्वं नास्ती त्यनेन व्याघात इत्यर्थः । भावेऽपि तस्यैकत्वेनानेकप्रकारत्वाभावात् द्वैविध्यं